________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagersuri Gyanmandi
सूत्रं १२५ गणधरवादे इन्द्रभूते प्रभुसमीप
गमनं
पर्युषणा दिनम् ॥१६॥ एकस्मिन्नजिते ह्यस्मिन् , सर्वमप्यजितं भवेत् । एकदा हि सती लुप्त-शीला स्थादसती सदा ॥१७॥ कल्पार्थ
चित्रं चैवं त्रिजगति, सहस्रशो निर्जिते मया वादैः। क्षिप्रचटीस्थाल्यामिव, कङ्कटुकोऽसौ स्थितो वादी ॥१८॥ बोधिन्याः Xअस्मिन्नजिते सर्व, जगज्जयोद्भतमपि यशो नश्येत् । अल्पमपि शरीरस्थं, शल्यं प्राणान् वियोजयति ॥ १९॥ व्या०६ यतः-छिद्रे खल्पेऽपि पोतः किं, पाथोधौ न निमज्जति ? । एकस्मिन्निष्टके कृष्टे, दुर्गः सर्वोऽपि पात्यते ॥२०॥" ॥१०६॥
al इत्यादि विचिन्तयन् कृतद्वादशतिलकः खर्णयज्ञोपवीतभूषितः स्फारपीताम्बराडम्बरः कैश्चित्पुस्तकपाणिभिः * कैश्चित्कमण्डलुपाणिभिः कश्चिद्दर्भपाणिभिः “सरखतीकण्ठाभरण ! वादिविजयलक्ष्मीशरण ! वादिमदगञ्जन!*
वादिमुखभञ्जन ! वादिगजसिंह ! वादिसिंहशरभ ! वादिविजयविचक्षण ! वादिवृन्दभूपाल ! वादिशिरःकाल! वादिकदलीकृपाण! वादितमोभाण! वादिगोधूमघरद्द! मर्दितवादिमर! विदिताखिलशास्त्ररहस्य !” इत्यादिबिरुदावलीमुखरितदिकचः छात्रपश्चशतैः परिवृत इन्द्रभूतिः प्रभोः समीपं गच्छंश्चिन्तयामास-'अहो !! धृष्टेनानेन किमेतत्कृतं ? यदहं सर्वज्ञाटोपेन प्रकोपितः' एतेन सत्यापिता एता जनोक्तयः, यदुत___"कृष्णसर्पस्य मण्डूक-श्चपेटां दातुमुद्यतः । आखूरदैश्च मार्जार-दंष्ट्रापाताय सादरः॥१॥ वृषभः खर्गज शृङ्गैः, प्रहर्नु काङ्क्षति द्रुतम् । द्विपः पर्वतपाताय, दन्ताभ्यां यतते रयात् ॥२॥ शशकः केसरिस्कन्ध-केसरां क्रष्टुमीहते । मदृष्टौ यदसौ सर्व-वित्त्वं ख्यापयते जने॥३॥ त्रिभिर्विशेषकम् ॥ शेषशीर्षमणि लातुं, हस्तःखीयः प्रसारितः। सर्वज्ञाटोपतोऽनेन, यदहं परिकोपितः॥४॥" भवतु किमेतेन ?, अधुना नाशयामि, यतः
॥१०६॥
For Private And Personal Use Only