________________
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रहस्यभागी
जीवानां
विहरति ।
प्रभागी, तं तं कालं मणवयकायजोगे वट्टमाणाणं सवलोए सवजीवाणं सवभावे जाणमाणे पासमाणे विहए ॥ १२५ ॥
एकान्तं न भजते इति अरहस्यभागी, जघन्यतोऽपि सुरकोटिसेव्यत्वात्, तस्मिन् तस्मिन् काले मनोवाकाययोगेषु यथाऽहं वर्तमानानां सर्वलोके सर्वजीवानां 'सर्वभावान्' गुणपर्यायांस्तत्र सहभाविनो ज्ञानादयो गुणाः क्रमभाविनो हर्षविषादादयः पर्यायास्तान जानन् पश्यंश्च विहरति । इतश्च तस्मिन्नवसरे मिलितेषु सर्वसुरासुरेषु विहितायां समवसरणरचनायां लाभाभावं आनन्नपि
"तत्रादिश्य क्षणं धर्म, देवोयोते जगद्गुरुः । लाभाभावान्मध्यमायां, महसेनवनेगमत् ॥१॥" "श्रीअपापामहापुर्या, यज्ञार्थी सोमिलो द्विजः। मगधागोर्वरादिभ्य, ईयुरेकादश द्विजाः॥२॥” तेषु च इन्द्रभूत्यग्नि तिवायुभूतिनामानस्त्रयो बान्धवाश्चतुर्दशविद्याविशारदाः क्रमेण जीव-कर्म-तज्जीवतच्छरीरविषये सन्दिग्धाः प्रत्येकं पञ्चशतपरिवाराः सन्ति । एवं व्यक्त-सुधर्माणी दो द्विजो तावत्परिवारौ a तथैव विद्वांसो क्रमशः पञ्चभूतानि सन्ति न वेति यो यादृशः स तादृश एवेति च सन्देहवन्तौ । तादृशावेव च मण्डित-मौर्यपुत्रनामानौ बान्धवौ प्रत्येकं सार्द्धत्रिशतपरिवारौ क्रमान्ध-देवविषयकसन्देहभाजौ, तथा अकम्तिोऽचलभ्राता मेतार्यःप्रभासश्चेति चत्वारो द्विजाःप्रत्येकं त्रिशतपरिवाराः क्रमेण नैरयिक-पुण्य-परलोकमोक्षविषये सन्दिग्धाः सन्ति । ते चैकादशापि द्विजा एकैकसन्देहभाजोऽपि सर्वज्ञत्वाभिमानक्षतिभयात्परस्परं
For Private And Personal use only