________________
Shri Mahavir Jain Aradhana Kendra
xxxxxx
www.kobatirth.org
रपत्तं व निश्वलेवे, कुम्मे इव गुत्तिदिए, खग्गिविसाणं व एगजाए, बिग इव विप्पमुक्के, भारंडपक्खी इव अप्पमत्ते, कुंजरे इव सोंडीरे, वसहे इव जायथामे, सीहे इव दुद्धरिसे, मंदरे इव निकंपे, सागरे इव गंभीरे, चंदे इव सोमलेसे, सूरे इव दित्ततेए, जच्चकलिलमिव शुद्धहृदयः, कालुष्याकलङ्कितत्वात्, 'पुष्करपत्रं' कमलपत्रं, तद्वन्निरुपलेपः, यथा कमलपत्रं जलेन न लिप्यते तथा प्रभुः कर्मणेत्यर्थः, कूर्म इव गुप्तेन्द्रियः, यथा कूर्मः कदाचिद् ग्रीवाचरणचतुष्करूपाङ्गपञ्चकेन गुप्तो भवेत्तथा भगवानहर्निशमिन्द्रियपञ्चकेन, खड्गिविषाणमिवैकजातः, यथा खड्गिनो - गण्डकस्य श्वापदविशेषस्य विषाणं-शृङ्गं एकमेव स्यात्तथा भगवानपि रागादिसहायरहितत्वात्, विहगः-पक्षी, तदिव विप्रमुक्तः, मुक्तपरिवारत्वादनियतवासाच्च, भारण्डपक्षीवाप्रमत्तः, निद्राद्यभावात् तेषां खरूपमिदं
"भारण्डपक्षिणः ख्याता -स्त्रिपदा मर्त्यभाषिणः । द्विजिह्वा द्विमुखाश्चैको दराऽभिन्नफलैषिणः ॥ १ ॥ " ते चात्यन्तमप्रमत्ता एव निर्वाहं लभन्तेऽतस्तदुपमा । कुञ्जर इव 'शौण्डीरः' कर्मशत्रून् प्रति शूरः, वृषभ इव 'जातस्थामा' जातबलः, स्वीकृतमहाव्रत भारोद्वहने समर्थत्वात्, सिंह इव दुर्द्धर्षः, परीषहश्वापदैरनभिभवनीयत्वात्, 'मन्दरों' मेरुस्तद्वन्निष्कम्पः-उपसर्गवातैरविचलसत्त्वः, सागर इव गम्भीरः, हर्षविषादादिकारणसद्भावेऽप्यविकृतचित्तः, चन्द्र इव सौम्यलेश्यः, परोपतापकृचित्तवृत्तिरहितत्वात्, सूरः- आदित्यस्तदिव दीप्ततेजाः, द्रव्यतो देहकान्त्या भावतो ज्ञानेन परेषां क्षोभकत्वाद्वा, जात्यकनकमिव जातरूपः, यथा कनकं मलज्वलनेन दीप्तं भवति तथा प्रभोरपि कर्ममलापगमेन खरूपमतिदीप्तमस्ति, वसुन्धरेव सर्वस्पर्शविषहः, यथा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir