SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir ततो भगवान् भद्रिकायां पञ्चमी चतुर्मासी चतुर्मासक्षपणेनातिवाह्य बहिः पारयित्वा तम्बालग्रामं गतस्तत्र पार्श्वनाथसन्तानीयो बहुशिष्यपरिवृतो नन्दिषेणाचार्यः प्रतिमास्थश्चौरभ्रान्त्याऽऽरक्षकपुत्रेण भया हतो (अवाप्तकेवलः सिद्ध इत्याव० चू०) जातावधिदिवङ्गतः, शेषं गोशालवचनादिकं मुनिचन्द्रवत् । ततः खामी कूपिक-16 सन्निवेशं गतस्तत्र चारिक(जासूस)शङ्कया गृहीतः, पावन्तेिवासिनीभ्यां संयमाक्षमतया परिवाजिकीभूताभ्यां | विजया-प्रगल्भाभ्यां मोचितः। ततो गोशालः खामितः पृथग्भूतोऽन्यपथि गच्छन् पञ्चशतैस्तस्करैहीतो | 'मातुल ! मातुल !' इति कृत्वा वाहनया खिन्नोचिन्तयत् 'वरं खामिनैव सह गमन मिति खामिनं मार्गयितुं लग्नः । खाम्यपि वैशाल्यां गत्वा लोहकारशालायां प्रतिमया स्थितः, तत्रैको लोहकारः षण्मासेन नीरोगीभूयो|पकरणान्यादाय शालायामागतः प्रभुमालोक्य अमङ्गलधिया घनेन हन्तुमुद्यतोऽवधिना ज्ञातव्यतिकरेणेन्द्रे|णागत्य तेनैव घनेन शिक्षितः। ततो ग्रामाकसन्निवेशं गतो भगवांस्तत्रोद्याने बिभेलकयक्षो महिमानमकरोत् । ततो बहुशालग्रामे शालवनोद्याने त्रिपृष्ठभवापमानिताऽन्तःपुरीजीवकटपूतनाव्यन्तरी तापसीरूपं विकुर्व्य जलभृतजटाभिरत्यसह्यमुपसर्ग चकार, ततोऽपि निश्चलं प्रभुमालोक्य प्रशान्ता स्तुतिमकरोत् । प्रभोश्च तं सहमानस्य षष्ठेन तपसा विशुद्ध्यमानलेश्यात्वेन लोकावधिरुत्पन्नः। ततः पुनर्भद्रिकां गत्वा षष्ठी चतुर्मासी स्थितस्तत्र चतुर्मासक्षपणं तपो विविधांश्चाभिग्रहानकरोत् । अत्र षण्मासान्ते पुनर्गोशालो मिलितः। ततो बहिः पारयित्वा ऋतुबद्धेऽष्टौ मासान् यावन्मगधावनौ निरुपसर्गो विहृतवान् भगवान् । पर्यु.क.१७ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy