________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा०
त्तिकेनोक्तः, अतस्तया तथैव निष्पादितं पायसं गोशालाय प्रदत्तं गृहज्वालनभयाच गृहद्वारं परावर्तितं । कल्पार्थ- * गोशालोऽप्यज्ञातवृत्तस्तद्भक्षयित्वा स्वाम्यन्तिके समागतः ततो यथावत्सिद्धार्थोक्तावप्रत्यये वमने कृते मांसबोधिन्याः खण्डान्यालोक्य रुष्टेन तेन गवेषयताऽपि तद्गृहं न लब्धं, ततः पाटकोऽपि दग्धः स्वामिनाम्ना ।
व्या० ६
॥ ९६ ॥
ततः स्वामी हरिद्रसन्निवेशाद्वहिर्हरिद्रवृक्षाधः प्रतिमयाऽवतस्थे तत्र पान्धप्रज्वालिताग्निना प्रभोरनपसरणात्पादौ दग्धौ, गोशालस्तु पलायितः । ततः खामी मङ्गलाग्रामे वासुदेवचैत्ये प्रतिमया स्थितस्तत्र गोशालो डिम्भभापनायाक्षिविक्रियामकार्षीत्तत्पित्रादिभिः कुट्टितो मुनिपिशाच इत्युपेक्षितश्च । ततो भगवानावर्त्तग्रामे बलदेवमन्दिरे प्रतिमया स्थितस्तत्र गोशालेन बालभापनाय मुखविक्रिया विहिता, ततस्तत्पित्रादयो 'ग्राहिलोऽयं, किमनेन हतेन ?, अस्य गुरुरेव हन्यते' इति यावत्प्रभुं हन्तुमुद्यतास्तावद्बलदेवमूर्तिरेव लाङ्गलमुत्पाट्य तान्यवारयत् । ततः सर्वे प्रभुं प्रणेमुः । ततः प्रभुश्चोराकसन्निवेशं गतस्तत्र मण्डपे भोज्यं पच्यमानमालोक्य गोशालो वारंवारं न्यग्भूय वेलामवलोकयति, तैश्वौरशङ्कया तर्जितोऽनेनापि रुष्टेन स्वामिनाम्ना स मण्डपो ज्वालितः । ततः खामी कलम्बुकासन्निवेशं गतस्तत्र मेघ - कालहस्तिनामानौ द्वौ भ्रातरौ, कालहस्तिनोपसर्गितो मेघेन चोपलक्ष्य क्षामितः । ततः स्वामी क्लिष्टकर्मनिर्जरार्थं लाढाविषयं प्राप, तत्र हीलनादयो घोरा उपसर्गा अध्यासिताः, पूर्णकलशाख्यं चानार्यग्रामं गच्छतः स्वामिनोऽध्वनि द्वौ तस्करावपशकुनधियाऽसिमुत्पाट्य हन्तुमुद्यतौ, दत्तोपयोगेन वज्रिणा प्राणान्तोपसर्ग इति ज्ञात्वा वज्रेणाहतौ ।
For Private And Personal Use Only
सूत्रं १२० तुर्या चतुर्मासीं पृष्ठ
चम्पाया
मतिवाह्य
प्रभो
विहारः, भद्रिकायां
च पश्चमी चतुर्मासी
॥ ९६ ॥