________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुज्ञाप्य मासक्षपणतपसा द्वितीयचतुर्मास्यां स्थितः, तत्र गोशालः समागतः, स च प्रथममासक्षपणपारणके | विजयश्रेष्ठिना कूरादिविपुल भोजनविधिना प्रतिलम्भितं प्रभुं पञ्चदिव्यादिमहिमानं च दृष्ट्वा 'अहं भवच्छिष्योऽस्मीति उवाच । ततो द्वितीये पारणके नन्देन पक्कान्नादिना तृतीये च सुनन्देन परमान्नादिना प्रतिलम्भितः ।
चतुर्थमासक्षपणे प्रभुः कोल्लागसन्निवेशे समागतस्तत्र बहुलनान्नाद्विजेन पायसेन प्रतिलम्भितः, पञ्चदिव्यानि च सञ्जातानि । गोशालश्च तन्तुवायशालायां प्रभुमदृष्ट्वाऽखिले राजगृहे गवेषयन् खोपकरणानि द्विजेभ्यः समर्प्य मुखं शिरश्च मुण्डयित्वा कोल्लाके गतस्तत्र प्रभुं दृष्ट्वा 'त्वत्प्रव्रज्या मम भवतु' इत्यकथयत् । ततस्तेन सह समवयस्को कम्बलशम्बलाख्यौ बालवृषभावानीय तयोर्दत्तौ । तौ नेच्छतः । बलाद् गृहे बद्ध्वा गतौ । श्राद्धेन चिन्तितं यदीमौ पश्चात्प्रेषयिष्येते तदा षण्ढीकरणभारोद्वहनादिभिर्दुःखितौ भविष्यतः, तत्प्रासुकतृणजलादिभिः पोष्यमाणौ वाहनादिभ्रमरहितौ सुखं तिष्ठतामन्त्रैव । कालेन अष्टम्यादिपर्वसु कृतपौषधेन तेन श्राद्धेन पुस्तकादिकं वाच्यमानं निशम्य तौ भद्रकौ जातौ । यद्दिने स श्राद्ध उपवासं करोति, तद्दिने तावपि तृणादि न भक्षयतः । एवं तस्य श्राद्धस्यापि साधर्मिकत्वेनातिप्रियौ जातौ । अन्यदा तस्य श्रेष्ठिनो मित्रेण तौ वृषावतिबलिष्ठौ सुन्दरी च विशाय श्रेष्ठिनमनापृच्छयैव भण्डीरवनयक्षयात्राये अदृष्टधुरावपि तथा वाहितौ यथा त्रुटिसन्धी सञ्जती, आनीय श्रेष्ठिगृहे बद्धी । श्रेष्ठिना च तौ तदवस्थौ दृष्ट्वा साश्रुनेत्रेण भक्तप्रत्याख्यापन- नमस्कारदानादिभिर्नियमितौ मृत्वा नागकुमारत्वेनोत्पन्नौ । तयोर्नूतनोत्पन्नयोरेकतरेण नौ रक्षिता, अन्येन च प्रभुमुपसर्गयन् सुदंष्ट्रसुरः प्रतिहतः । ततस्तं निर्जित्य प्रभोर्गुणान् गायन्तौ नृत्यन्तौ च समहोत्सवं सुरभिजलकुसुमवृष्टिं कृत्वा तौ स्वस्थानं गतौ ।
x मङ्खलीनामा मङ्गः (चित्रपटं प्रदर्श जीवननिर्वाहको भिक्षुः), तस्य भार्या सुभद्रा शरवणग्रामे गोबहुल द्विजगोशालायां प्रसूतेति गोशाल इति नाम ।
For Private And Personal Use Only