________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथापि भ्रमता मया न किञ्चिन्मात्रमप्यवाप्तं द्रविणं, ततोऽहं निष्पुण्यो निराश्रयो निर्द्धनस्तवैव जगद्वाञ्छि-19 तदायकस्य शरणमागतोऽस्मि, तव च जगद्दारिद्यहरस्य मम दारिद्यहरणं कियन्मात्रं , यतः
"सम्पूरिताशेषमहीतलस्य, पयोधरस्थाद्भुतशक्तिभाजः।"
"किं तुम्बपात्रप्रतिपूरणाय, भवेत्प्रयासस्य कणोऽपि नूनम् १ ॥१॥" एवं सदीनं याचमानाय द्विजाय करुणापरेण भगवता देवदूष्यस्थाई प्रदत्तं । अत्र तादृग्दानदायी निस्पृहोऽपि भगवाननुपयोग्यऽपि देवदूष्यं यत् शकलीकृत्याई ब्राह्मणाय दत्तवानवशिष्टाई च खस्कन्धे न्यस्तवांस्तद्भगवत्सन्ततेर्वस्त्रादिषु मूर्छासंसूचकमित्येके, कालानुभावादृद्धिमानपि नोदारभावेनौचिखकर्ता भविष्यतीति सूचकमित्यपरे, भगवतः प्रथमं विप्रकुलोत्पन्नत्वसूचकमित्यन्ये । ब्राह्मणस्तु तदई लात्वा दशाञ्चलकृते तुन्नवायायादर्शयत् । तेनापि समग्रं व्यतिकरं ब्राह्मणानिशम्योक्तं-'भो विप्र ! याहि त्वं, तमेव प्रभुमनुगच्छ, सहि निर्ममः करुणासागरो द्वितीयमप्यर्द्ध दास्यति, ततस्तदर्द्धद्वयमहं तथा सन्धिष्यामि यथाऽक्षतमिव दीनारलक्षमूल्यं भविष्यति, तेन च अर्द्धमर्दू विभक्तेन तव मम च द्वयोरपि दारिमं यास्यति' । इति तत्प्रेरणया विनोऽपि पुनःप्रभुपार्श्वमागतः,त्रपया मार्गयितुमशक्नुवन्वर्ष यावत्पृष्ठे षनाम, ततश्च स्वतः पतितं तदई लात्वा । गतस्तूणकारात्तूणाप्य विक्रीय च दीनारलक्षाई खयं विप्रेण गृहीतमद्धं च तूणकाराय दत्तं, एवं द्वयोरपि दारिद्र्यं गतं । तदेवं भगवता सवस्त्रधर्मप्ररूपणाय साधिकमासं वर्ष यावद्वस्त्रं खीकृतं, सपात्रधर्मव्यवस्थापनाय
IKOKHO-KOKDKOKANKEKEKOKe
For Private And Personal Use Only