SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir SEOC ते णं काले णं ते णं समए णं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे पढमे पक्खे, मग्गसिरबहुले, तस्स णं मम्गसिरबहु| लस्स दसमीपक्खे णं, पाईणगामिणीए छायाए, पोरिसीए अभिनिवट्टाए पमाणपत्ताए, सुच्चएणं दिवसेणं, विजएणं मुहुत्तेणं, चंदप्पभाए ११५-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो योऽसौ 'हेमन्तस्य' शीतकालस्य प्रथमो मासः प्रथमः पक्षः, मार्गशीर्षबहुलः, तस्य मार्गशीर्षबहुलस्य दशम्याः 'पक्षे दिवसे, 'प्राचीनगामिन्यांपूर्वदिग्यायिन्यां छायायां, पौरुष्यांपाश्चात्यायां'अभिनिवृत्तायां जातायां, प्रमाणप्राप्तायां-नतुन्यूनाधिकायां, सुव्रताख्ये दिवसे, विजयाख्ये मुहूत्र्ने, उक्तखरूपायां चन्द्रप्रभाभिधायां शिविकायां कृतषष्ठतपाः विशुद्ध्यमानलेश्याकः सिंहासने पूर्वाभिमुखो निषीदति । ततःप्रभोदक्षिणे कुलमहत्तरिका हंसलक्षणं पटशाटकमादाय, वामे च प्रभोरम्बधात्री दीक्षोपकरणान्यादाय, पृष्ठे चैका वरतरुणी स्फारशृङ्गारा धवलातपत्रं धृत्वा, ईशाने चैका पूर्णकलशहस्ता, आग्नेये त्वेका कनकदण्डमणिमयतालवृन्तहस्ता भद्रासने निषीदति । ततो नगरप्रतोली यावन्नन्दिवर्द्धनादिष्टा नराः हृष्टा|स्सन्तः शिविकामुत्पादयन्ति, पश्चात् शको दक्षिणामुपरितनीं वाहां, ईशानेन्द्र उत्तरामुपरितनी बाहां, चमरेन्द्रो दक्षिणामधस्तनी बाहां, बलीन्द्र उत्तरामधस्तनी बाहामुत्पाटयति, शेषाश्च भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्राश्चलच्चञ्चलकुण्डलायाभरणाः पञ्चवर्णकुसुमवृष्टिं कुर्वन्तो दुन्दुभी ताडयन्तो यथाऽहं शिविकामुत्पाटयन्ति, तदा शक्रेशानेन्द्रौ बाहां त्यक्त्वा प्रभोश्वामराणि वीजयतः । एवं शिविकामारुह्य प्रस्थिते भगवति शरदि पद्मसर इव, पुष्पितं अतसी-कर्णिका-चम्पक-तिलकवनमिवातिरमणीयं नभस्तलं सुरवरैरभूत् । .क.१५ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy