SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा० कल्पार्थ बोधिन्याः व्या० ५ 1106 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठे दिवसे धम्मजागरियं करिंति, इक्कारसमे दिवसे विइकंते, निवत्तिए असुइजम्मकम्मकरणे, संपत्ते वारसाहे दिवसे, विउलं असणं त्सवोचितां क्रियां कुरुतः, तृतीये दिवसे चन्दसूर्यदर्शनिकां तयोर्दर्शनार्थं उत्सवविशेषं कुरुतः । तद्विधिश्चायम्— जन्मदिवसाद्दिनद्वयेऽतीते गृहस्थगुरुरर्हत्प्रतिमाऽग्रे रूप्यमय चन्द्रमूर्त्ति प्रतिष्ठाप्य पूजयित्वा च विधिना स्थापयेत्, ततः स्लातां सुवस्त्राभरणां सपुत्रां जननीं चन्द्रोदये प्रत्यक्षं चन्द्राभिमुखं नीत्वा “ॐ अहं चन्द्रोऽसि निशाकरोऽसि नक्षत्रपतिरसि सुधाकरोऽसि औषधिगर्भोऽसि, अस्य कुलस्य वृद्धिं कुरु कुरु स्वाहा " इति चन्द्रमन्त्रमुच्चारयँश्चन्द्रं दर्शयेत् । सपुत्रा माता गुरुं प्रणमति, गुरुश्चाशीर्वादं ददाति स चायं[u१॥" “सर्वोषधि मिश्रमरीचिराजिः, सर्वापदां संहरणे प्रवीणः । करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः॥ ततो मूर्त्तेर्विसर्जनं करोति । वार्दलादिना चन्द्रादर्शनेऽपि तस्यामेवापरस्यां वा निशायामयं विधिः क्रियते । एवं सूर्यस्यापि दर्शनं, नवरं मूर्त्तिः काञ्चनमयी ताम्रमयी वा, मन्त्रञ्च – “ ॐ अहं सूर्योऽसि दिनकरोऽसि तमोऽपहोऽसि सहस्रकिरणोऽसि जगच्चक्षुरसि, प्रसीद, अस्य कुलस्य तुष्टिं पुष्टिं प्रमोदं कुरु कुरु स्वाहा " आशीर्वादश्चायम् "सर्वसुरासुरवन्द्यः, कारयिताऽपूर्व सर्वकार्याणाम् । भूयात्रिजगच्चक्षु मङ्गलदस्ते स पुत्रायाः ॥ १ ॥” इति चन्द्रसूर्यदर्शन विधिः । साम्प्रतं तु तत्स्थाने शिशोदर्पणो दर्श्यते । ततः षष्ठे दिवसे कुलस्य लोकस्य वा 'धर्मेण' व्यवहारेण रात्रौ जागरणं-धर्मजागरिका, तां जागृतः, षष्ठ्यां रात्रौ जागरणोत्सवं कुरुत इति भावः । एकादशमे दिवसे व्यतिक्रान्ते 'निर्वर्त्तिते' समापिते च अशुचीनां जन्मकर्मणां यत्करणं, For Private And Personal Use Only सूत्रं १०६ चन्द्रसूर्यदर्शनिकादयः ॥ ७८ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy