________________
Shri Mahavir Jain Aradhana Kendra
www. kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
8XoxoxoxoxXXXXX**
पाणं खाइमं साइमं उवखडार्विति । उवक्खडावित्ता मित्त-नाइ-नियय-सयण-संबंधि-परिजणं नायए खत्तिए य आमंतेइ । आमंतित्ता तओ पच्छा पहाया कयवलिकम्मा कयकोउअमंगलपायच्छित्ता,सुद्धप्पावेसाई मंगल्लाई पवराईवस्थाई परिहिया, अप्पमहग्याभरणालंकिय सरीरा भोअणवेलाए भोअणमंडवंसि सुहासणवरगया तेणं मित्त-नाइ-नियय-सयण-संबंधि-परिजणेणं नायएहिं खत्तिएहिं सद्धिं तं विउलं असण-पाण-खाइम-साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा विहरंति ॥ १०६ ॥ तस्मिन् , कृते सतीत्यर्थः, सम्प्राप्ते द्वादशे दिवसे 'विपुलं' बहु अशनं पानं खादिम स्वादिम, इति चतुर्विधमाहारं 'उपस्कारयतः' प्रगुणीकारयतः । उपस्कारयित्वा मित्राणि सुहृदः 'ज्ञातयः' सजातीयाः 'निजकाः'खकीया: पुत्रादयः 'खजनाः' पितृव्यादयः 'सम्बन्धिन' स्वस्य पुत्रपुत्र्यादेश्च श्वशुरादयः 'परिजना' दासादयः, तांस्तथा * 'ज्ञातजान्' ऋषभजिनवंशजान् क्षत्रियांश्च आमन्त्रयति । आमच्य ततः पश्चात् लातौ कृतबलिकाणी कृतकौतुकमङ्गलप्रायश्चित्तौ सन्तौ 'शुद्धानि' निर्मलानि 'प्रावेश्यानि' सभाप्रवेशार्हाणि 'माङ्गल्यानि' उत्सवसूचकानि 'प्रवराणि' श्रेष्ठानि वस्त्राणि परिहितानि याभ्यां, पुन: 'अल्पैः' स्तोकः 'महाधैः' बहुमूल्यैराभरणरलत्कृतशरीरी, ईदृशौ भगवन्मातापितरौ भोजनवेलायां भोजनमण्डपे सुखासनवरगतौ-सुखेन भद्रासने आसीनौ सन्तौ तेन मित्र-ज्ञाति-निजक-खजन-सम्बन्धि-परिजनेन ज्ञातजैः क्षत्रियैश्च सार्द्ध तं विपुलं अशनपान-खादिम-खादिमरूपं चतुर्विधमाहारं आ-ईषत्स्वादयन्ती बहु त्यजन्तौ इक्ष्वादेरिव, वि-विशेषेण खादयन्ती खल्पं त्यजन्तौ खरादेरिव, 'परि' सामस्त्येन-सर्व भुञ्जानौ अल्पमप्यत्यजन्तौ भोज्यादेरिव 'परिभाजयन्तौ' परस्परं यच्छन्तौ 'एवं' अनेन प्रकारेण भोजनं कुर्वाणी विहरतः।
पर्यु.क.१४
For Private And Personal Use Only