________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रं १०४ स्थितिपतितावर्णनम्
पर्युषणा प वाइएणं संख-पणव-मेरि-झल्लरि-वरमुहि-हुडुक्क-मुरज-मुइंग-दुंदुहि-निग्घोस-नाइयरवेणं, उस्सुक्कं उक्करं उक्किटुं अदिजं अमिजं अभडप्प- कल्पार्थ- वेसं अदंडकोदंडिमं अधरिमं गणिआवरनाडइजकलिअं अणेगतालायराणुचरिअं अणुचुअमुइंगं (ग्रं० ५००) अमिलायमल्लदाम पमुइय- बोधिन्याः
Xआह-महत्या ऋद्ध्या, महत्या युक्त्या द्युत्या वा, महता 'बलेन महता वाहनेन, महता समुदयेन तथा महता व्या०५
नवराणां प्रधानानां त्रुटितानां वादित्राणां 'यमकसमकं' युगपत् 'प्रवादितेन' शब्दितेन, तथा शङ्खः प्रतीतः ॥७७॥1
पणवो' मृत्पदहः 'भेरी' ढक्का, झल्लरी "झालर" इति लोके प्रतीता, 'खरमुखी' काहला 'हुडुक्का' तिवलितुल्यो वाद्यविशेषः 'मुरजो' मर्दलः 'मृदङ्गः' मृन्मयः स एव, 'दुन्दुभिः' देववाद्यं, एतेषां यो 'निर्घोषो' महाशब्दः 'नादितं' प्रतिशब्दश्च, तद्रूपो यो रवो-मधुरशब्दस्तेन, एवंविधयाऽखिलसामग्र्या सह सिद्धार्थो राजा दशदिवसान् यावत् |'स्थितिपतितां' कुलमर्यादा महोत्सवलक्षणां करोतीति योजना । अथ किंविशिष्टां स्थितिपतितां ? इत्याह'उच्छुल्कां' शुल्केन-विक्रेतव्यवस्तु प्रति राजग्राह्यद्रव्येण रहितां 'उत्करां' गवादीन् प्रति प्रतिवर्ष राजग्राह्य|कररहितां 'उत्कृष्टां, सर्वेषां हर्षहेतुत्वादुत्तमा । 'अदेयां' वस्तुमूल्यदानरहितां, यद्यस्य युज्यते तत्सर्वमापणादग्राह्यं, न तु मूल्यं देयं, तत्तु राजा ददातीति भावः। 'अमेयां' अमितानेकवस्तुयोगां क्रय विक्रयरहितां वा, 'अभटप्रवेशां' कस्यापि गृहे राजाज्ञादायिपुरुषप्रवेशरहितां 'अदण्डकुदण्डिमां' दण्डो-यथाऽपराधं राजग्राह्य *धनं, कुदण्डं-महत्यप्यपराधे तदेवाल्पं, ताभ्यां रहितां, 'अधरिमां' ऋणरहितां, ऋणस्य नृपेण दत्तत्वात् ।
गणिकावरनाटकीयैः' नाटकप्रतिबद्धपात्रः 'कलितां' युक्तां, अनेकः 'तालाचरैः' प्रेक्षाकारिभिः 'अनुचरिता'
XXXXXOXOFOX
KKK K9KOK.
XX2-K9KOK
॥७७॥
For Private And Personal Use Only