________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सब्भितर बाहिरियं, आसिय सम्मजिओ-वलित्तं, सिंघाडग-तिग- चउक्क-चच्चर-चउम्मुह महापह-पहेसु सित्त-सुइ- सम्मट्ट-रत्थंतरा-वणवीहियं मंचाइमंचकलिअं, नाणा विहरागभूसि अज्झयपडागमंडियं, ला[इ] उल्लोइयमहिअं, गोसीस सरस-रत्तचंदण- दद्दर-दिन्नपंचंगुलितलं, उबचियचंदणकलसं, चंदणघड सुकयतोरणपडिदुबारदेसभागं, आसत्तोसत्त- विपुल वट्ट-वग्धारिय-मलदाम- कलावं, पंचवण्ण-सरस-सुरभि
दकच्छटादानेन, सम्मार्जितं कचवरापनयनेन, उपलिप्तं च छगणादिना । पुनः 'शृङ्गाटक' त्रिकोणस्थानं 'त्रिकं' मार्गत्रयसङ्गमः 'चतुष्कं' मार्गचतुष्कसङ्गमः 'चत्वरं' अनेकमार्गसङ्गमः, 'चतुर्मुखं' देवकुलादि, 'महापथाः' राजमार्गाः पन्थानः' सामान्यपथाः, एतेषु स्थानेषु यानि 'रध्यान्तराणि' मार्गमध्यानि तथा 'आपणवीधयः' हहमार्गाश्च तानि सिक्तानि जलेन, अत एव 'शुचीनि' पवित्रीकृतानि, समृष्टानि कचवरापनयनेन यस्मिन् । पुनः 'मञ्चाः' प्रेक्षणकद्रष्टृणामुपवेशनार्थं रचिता मालकाः, 'अतिमञ्चाः' तेषामप्युपरि मालकास्तैः कलितं । तथा नानाविधरागैः कौसुम्भादिभिर्भूषिताः' शोभिता ये 'ध्वजाः' सिंहादिरूपोपेता बृहत्पटरूपाः 'पताका'स्ता एव लव्यस्ताभिर्मण्डितं' विभूषितं । तथा "लाइयं" छगणादिना भूमौ लेपनं "उल्लोइअं" खटिकादिना भित्त्यादिधवलनं, तैः 'महितं' पूजितमिव । गोशीर्षस्य-चन्दन विशेषस्य 'सरसस्य' सद्यस्कस्य रक्तचन्दनस्य दर्दरनामाद्रिजातस्य च चन्दनस्य दत्ताः पञ्चाङ्गुलितला : - हस्तका यत्र । पुनः 'उपचिताः' स्थापिता गृहान्तश्चतुष्कोणेषु 'चन्दनकलशा:' माङ्गल्यघटा यत्र । तथा चन्दनघटैः सुकृतानि रम्याणि तोरणानि 'प्रतिद्वारदेश भाग ' | द्वारद्वारस्य देश भागेषु यत्र । 'आसक्त' भूमिलग्नः 'उत्सक्तः' उपरिलग्नो 'विपुलो' विस्तीर्णो 'वृत्तो' वर्त्तुलः
For Private And Personal Use Only