________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पार्थ
BX0
सूत्रं ९९ मेरुशिखरे | शक्रादिदेवकृत स्नात्रोत्सवा
पर्युषणा० "इति क्लुप्तां हरेः शङ्कां, हर्नु मेरुगिरिं प्रभुः । लीलयाऽचालयद्वाम-पादाङ्गुष्ठाग्रपीडनात् ॥५३॥"
"तद्विज्ञायावधिज्ञानात्, प्रभोलीलायितं हरिः। स्वामिन् ! मिथ्या वितर्क मे, क्षमखेति ननाम च ॥५४॥" बोधिन्याः * अत्र कवि:-"सङ्ख्याऽतीताहतांमध्ये, स्पृष्टः केनाऽपि नांहिणा। मेरुः कम्पमिषादित्या-नन्दादिव ननर्त सः॥५६॥" व्या०५ यतः-"शैलेपु राजता मेऽभूत्, स्लावनीराभिषेकतः। तेनामी निर्जरा हाराः, स्वर्णापीडो जिनस्तथा ॥५६॥" |
| "तत्र पूर्वमच्युतेन्द्रो, विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो, यावच्चन्द्रार्यमादयः॥५७॥" जलस्नात्रे कविघटना॥७४॥
X"श्वेतच्छत्रायमाणं शिरसि मुखशशिन्यंशुपूरायमाणं, कण्ठे हारायमाणं वपुषि च निखिले चीनचोलायमानम्।
श्रीमजन्माभिषेकप्रगुणहरिगणोदस्तकुम्भौघगर्भाद्, भ्रश्यदुग्धाब्धिपाथश्चरमजिनपतेरङ्गसङ्गिश्रिये वः॥५८॥" e "चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः खयम् । शृङ्गाष्टकक्षरत्क्षीर-रकरोदभिषेचनम् ॥१९॥ सत्यं ते विबुधा alदेवा, यैरन्तिमजिनेशितुः। सृजद्भिः सलिलैः स्नात्रं, स्वयं नैर्मल्यमादधे ॥६०॥ समङ्गलप्रदीपं ते, विधायारा* त्रिकं पुनः। सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥३१॥ उन्मृज्य गन्धकाषाय्या, दिव्ययाऽङ्गं हरिविभोः।
विलिप्य चन्दनाद्यैश्च, पुष्पायैस्तमपूजयत् ॥६२॥ दर्पणो वर्द्धमानश्च, कलशो मीनयोर्युगम् । श्रीवत्सः खस्तिको नन्द्या-वर्त-भद्रासने इति ॥६३॥ अनन्तमङ्गलासङ्ग-चङ्गस्याप्यष्टमङ्गलीम् । लेखाग्रणीर्लिलेखाग्रे, भक्तिव्यक्त्या जगत्प्रभोः॥ ६४ ॥ युग्मम् । इलातलमिलन्मौलिः, पौलोमीवल्लभः प्रभुम् । स्तुत्वा शक्रस्तवेनेति, पुनः स्तोतुं प्रचक्रमे ॥६५॥ नमस्ते विश्वदीपाय, नमस्ते विश्वशासिने । नमस्ते विश्वनाथाय, नमस्ते चरमार्हते ॥६६॥
XXXXXXXXXXXX
| ॥७४॥
For Private And Personal Use Only