SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir XXXXXXXXXXX तेनुस्तु तास्तयोलानचर्चाशुकालङ्का-रादि पूर्वगृहे ततः॥१८॥ उत्तरेऽरणिकाष्ठाभ्या-मुत्पाद्याग्निं सुचन्दनैः। होमं कृत्वा ववन्धुस्ता, रक्षापोहलिका द्वयोः॥१९॥ पर्वतायुर्भवेत्युक्त्वा-ऽऽस्फालयन्त्योऽश्मगोलको। जन्मस्थानं च तो नीत्वा, स्वस्वदिक्षु स्थिता जगुः॥२०॥अर्हतोऽर्हजनन्याश्च, गुणैौरवितानि ताः। गायन्त्यो मङ्गलान्युच्चैरासीनास्तस्थुरुन्मुदा ॥ २१ ॥" |एता हि-“सामानिकानां प्रत्येकं, चत्वारिंशच्छतैर्युताः। महत्तराभिः प्रत्येकं, तथा चतमृभिर्युताः॥२२॥" "अङ्गरक्षैः षोडशभिः, सहस्रः सप्तभिस्तथा । कटकैस्तदधीशैश्च, सुरैश्चान्यैर्महर्द्धिभिः॥ २३ ॥" परिवृता आभियोगिकदेवकृतैर्योजनोन्मितैर्विमानैरत्रायान्तीति दिकुमारिकाकृतो जन्मोत्सवः। "ततः सिंहासनं शाकं, चचालाचलनिश्चलम् । प्रयुज्याथावधिं ज्ञात्वा, जन्मान्तिमजिनेशितुः॥२४॥" "वज़्येकयोजनां घण्टां, सुघोषां नैगमेषिणा । अवादयत्ततो घण्टा, रेणुः सर्वविमानगाः॥२६॥” युग्मम्॥ "शकादेशं ततः सोचैः, सुरेभ्योऽज्ञापयत्खयम् । तेन प्रमुदिता देवा-श्वलनोपक्रम व्यधुः॥ २६॥" "पालकाख्यामरकृतं, लक्षयोजनसम्मितम् । विमानं पालकं नामा-ऽध्यारोहत्रिदशेश्वरः ॥२७॥" तत्र पालकविमाने तावदिन्द्रसिंहासनाग्रेऽग्रमहिषीणामष्टौ भद्रासनानि, वामे चतुरशीतिसहस्रसामानिकानां तावन्ति भद्रासनानि, दक्षिणे द्वादश-चतुर्दश-षोडशसहस्राणामाभ्यन्तर-मध्यम-बाह्यपाद्देवानां तावन्ति २, सर्वमीलने च द्विचत्वारिंशत्सहस्राणि भद्रासनानि,पृष्ठे सप्तानीकाधिपानां सप्तभद्रासनानि,मध्ये शक्रासनं, ततः।। पयु.क.१३ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy