________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा ० उण्हेहिं नाइतित्तेहिं नाइक डुएहिं नाइकसाएहिं नाइअंबिलेहिं नाइमडुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं, सन्चत्तुगकल्पार्थ- भयमाण सुहेहिं भोयणाच्छायणगंधमल्लेहिं, ववगयरोगसोगमोहभयपरिस्समा सा जं तस्स गन्मस्स हिअं मियं पत्थं गब्भपोसणं, तं देसे बोधिन्याः * सती तं गर्भं नातिशीतैर्नात्युष्णैर्नातितिक्तैर्नातिकटुकैर्नातिकषायैर्नात्यम्लैर्नातिमधुरैर्नाति स्निग्धैर्नाति रूक्षैर्नात्या
॥ ६८ ॥
व्या० ४२ र्नातिशुष्कैः सर्वर्त्तषु 'भज्यमानाः सेव्यमाना ये 'सुखाः' सुखकारिणस्तैः, यथा चोतं - "वर्षासु लवणममृतं, ॐ शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो, घृतं वसन्ते गुडश्चान्ते ॥ १ ॥ एवंविधैर्भोजनाच्छादनगन्धमाल्यैस्तं गर्भं पोषयतीति शेषः । यतो नातिशीतलाद्याहारादयो गर्भस्य हिताः, ते हि केचिद्वातिकाः केचित्पैत्तिकाः केचिच्छ्रेष्मकराश्च भवन्ति, अतो गर्भस्याहिताः, यदुक्तम् - "वातलैश्च भवेद्गर्भः, कुलान्धजडवामनः । पित्तलैः खलेतिः पिङ्गं-चिंत्री पाण्डुः कफात्मभिः ॥ १ ॥” तथा “अत्युष्णं हरति बलं, ह्यतिशीतं मारुतं प्रकोपयति । अतिलवणमचाक्षुष्य-मतिस्नेहं दुर्जरं भवति ॥ १ ॥” अतो नातिशीतलायैस्तं गर्भ सा पोषयतीति युक्तम् । पुनः सा त्रिशला कथम्भूता ? 'रोगाः' ज्वरायाः, 'शोकः' इष्टवियोगादिजनितः 'मोहो' मूर्च्छा 'भयं' भीतिः 'परिश्रमो' व्यायामः, एते व्यपगता यस्याः, रोगादिरहितेति भावः । यतस्ते गर्भस्याहिताः, तदुक्तं सुश्रुते वैद्यकप्रन्थे ( शारीरस्थाने अ. २।२६ ) - “ दिवा स्वपन्त्याः स्त्रियाः स्वापशीलो गर्भः, अञ्जनादन्धः, रोदनाद्विकृतदृष्टिः, स्नानानुलेपनाहुश्शीलः, तैलाभ्यङ्गात्कुष्टी, नखापकर्त्तनात्कुनखी, प्रधावनाच्चञ्चलः, हसनात् श्या[म] वदन्तौष्ठतालुजिह्वः, अतिकथनाच्च
१ खल्वाटः । २ दीपशिखावर्णवद्वर्णवान् । ३ चित्रं पाण्डुरं कुष्ठं, तद्वान् ।
For Private And Personal Use Only
सूत्रं ९७ वीरस्य
चलने त्रिशलाया हर्षवर्णनम्
॥ ६८ ॥