SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा ० कल्पार्थ बोधिन्याः व्या० ४ ॥ ६७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वियाणित्ता एगदेसेणं एयइ । तए णं सा तिसला खत्तियाणी हट्ट-तुट्टा जाव हयहिया एवं वयासी ॥ ९५ ॥ नो खलु मे गमे घडे जाव * सूत्रे९५-९६ नो गलिए, एस मे गभे पुधिं नो एयइ इयाणिं एयइ त्ति कट्टु हट्ट तुट्टा जाव हयहियया एवं विहरइ । तर णं समणे भगवं महावीरे समुत्पन्नं अवधिना विज्ञायाचिन्तयत् " किं कुर्मः ? कस्य वा ब्रूमो ?, मोहस्य गतिरीदृशी । दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः ॥ १ ॥” "मया मातुः प्रमोदाय, कृतं जातं तु खेदकृत् । भाविनः कलिकालस्य, सूचको लक्षणं यदः ॥ २ ॥” “पञ्चमारे गुणो यस्माद्, भावी दोषकरो नृणाम् । नालिकेराम्भसि न्यस्तः, कर्पूरो मृतये यथा ॥ ३ ॥” इति चिन्तयित्वा एकदेशेन अङ्गुल्यादिना एजते, ततः सा त्रिशला क्षत्रियाणी हृष्टा तुष्टा यावन्मेघधाराहतकदम्बपुष्पवद्धर्षपूर्णहृदया एवं अवादीत् ९६ - नो खलु मे गर्भो हृतः केनापि देवादिना यावनो गलितः । एवं मे गर्भः पूर्वं 'नैजते' नाकम्पत, इदानीमेजते, इति कृत्वा हृष्टा तुष्टा यावन्मेघधाराहतकदम्बपुष्पवद्धर्षपूर्णहृदया सती एवं विहरति आस्ते । अथ हर्षिता त्रिशला यथाऽचेष्टत तथा लिख्यते "प्रोवाच मधुरवाचा, गर्भे मे विद्यतेऽथ कल्याणम्। हा !! धिङ्मयकाऽनुचितं, चिन्तितमतिमोहमतिकतया ॥१॥" " सन्त्यथ मम भारयानि, त्रिभुवनमान्या तथा च धन्याऽहं । श्लाघ्यं च जीवितं मे, कृतार्थतामाप मे जन्म ||२||” "श्रीजिनपादाः प्रसेदुः कृताः प्रसादाच गोत्रदेवीभिः | जिनधर्मकल्पवृक्ष - स्त्वाजन्माराधितः फलितः ॥३॥” For Private And Personal Use Only मातुः प्रमोदाय चलनं वीरस्य हर्षव त्रिशलायाः ॥ ६७ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy