________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
XXXXXXXXXXXXX
बन्धादिदोषा न भवेयुः । अजितादिद्वाविंशतिजिनसाधूनां तु न मासकल्पनियमः, ते हि कारणाभावे देशोना पूर्वकोटीमपि यावदेकत्र तिष्ठन्ति, कारणे च न मासमपीत्यनियतोऽयं कल्पस्तेषाम् ९।। | "पजोसणाकप्पो"त्ति पर्युषणाकल्पः, तत्र 'परि' सामस्त्येन-द्रव्यक्षेत्रकालभावेन 'उषणा' वसनं पर्युषणा,
सा द्विधा-गृह्यज्ञाता गृहिज्ञाता च, तत्र अशिवादिकारणे कदाचिद्गमनं स्यात्ततः पञ्चपञ्चदिनवृद्ध्या चन्द्रवर्षे |पञ्चाशद्दिनं अभिवर्द्धिते तु विंशतिदिनानि यावदनभिगृहीता-अनिश्चिता स्थितिर्यस्यां सा गृह्यज्ञाता, या तु
गृहिज्ञाता सा सांवत्सरिककृत्यविशिष्टा ज्ञेया । यदुक्तं-"एत्थ य अणभिग्गहियं, वीसइराई सवीसयं मासं । तेण परमभिग्गहियं, गिहिनायं कत्तियं जाव ॥ १॥' अनभिगृहीतं-अनिश्चितं, अशिवादिभिर्निर्गमभावात् , आह च-'असिवादिकारणेहिं, अहवा वासं न सुटू आरद्धं । अभिवड्डियम्मि वीसा, इयरेसु सवीसइमासो ॥१॥' यत्र संवत्सरे अधिकमासो भवति, तत्र आषाढ्या विंशतिर्दिनानि यावदनभिग्रहिक (अनिश्चित) आवासोऽन्यत्र (चन्द्रवर्षे ) सविंशतिरात्रं मासं-पञ्चाशतं दिनानी"ति पर्युषणाकल्पनियुक्तिगाथाभ्यां स्थानाङ्गे पञ्चमस्थानवृत्तौ श्रीमदभयदेवसूरिपूज्यः। अनेन सिद्धं यदतः परमभिगृहीतं-निश्चितं गृहिज्ञातं कार्तिकी यावद्दिनशतं अभिवर्द्धितवर्षे, चन्द्रवर्षे दिनसप्ततिं च स्थातव्यमिति । तथा "अभिवड्डियम्मि वीसा, इयरेसु सवीसइमासो" इति पर्युषणाकल्पनियुक्ती, तथा "अभिवड्डियवरिसे वीसतिराते गते गिहिणातं
x यच्च खस्य द्रव्यक्षेत्रादिसमस्तप्रतिबन्धनिमन्नत्वेऽपि 'वयं मासकल्पसत्यापकाः, अमुकेन तद्व्यवच्छेदः प्ररूपितः' इत्यादि मिथ्याप्रलपनं तद्वक्तुः पृथुस्थूलबुद्धेरेवानुमापकं, वस्तुतो मासानन्तरं लध्वपुनरावृत्त्याऽन्यत्र गमनमेव मासकल्पो, न तु एकादिरात्रिमन्यत्रोषित्वा पुनस्तत्रैवागमनस्य नाम मासकल्पः ।
For Private And Personal Use Only