________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
विअपुरिसा सिद्धत्थेणं रना एवं वुत्ता समाणा हट्टतुट्ट जाव हियया, करयल जाव पडिमुणंति ॥६६॥
पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतिआओ पडिनिक्यमंति । पडिनिक्खमित्ता कुंड[पुरं]ग्गाम नगरं मझमझेणं जेणेव | सुविणलक्षणपाढगाणं गेहाई, तेणेव उवागच्छति । उवागच्छित्ता सुविणलक्षणपाढए सद्दाविति ॥ १७ ॥ विद्या ३, भूकम्पादिना शुभाशुभज्ञानं भौमविद्या ४, मषतिलकादिना शुभाशुभविज्ञानं व्यञ्जनविद्या ५, करचरणरेखादिकैः शुभाशुभविचारो लक्षणविद्या ६, विद्युदुल्कापातादिना शुभाशुभज्ञानं औत्पातं,
यथा-“वाताय कपिला विद्युत्, आतपायातिलोहिनी । पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत्॥१॥" तथा-"उल्कापाते प्रजापीडा, निर्घाते भूपतिक्षयः । अनावृष्टिश्च दिग्दाहे, दुर्भिक्षं पांशुवर्षणे ॥१॥"७, __ आकाशे गुरुशुक्रादिग्रहाणामुदयास्तादिना कृतं शुभाशुभज्ञानमान्तरिक्ष ८। इत्येवमष्टविधं निमित्तम् ।
यद्वा-"जीवितं मरणं चैव, सुखं दुःखं तथैव च । गमनागमने लाभो-ऽलाभो निमित्तमष्टाङ्गम् ॥१॥” (आर्या) ततस्ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवमुक्ताः सन्तो हृष्टास्तुष्टाः यावत् हर्षपूर्णहृदया करतलाभ्यां अञ्जलिं कृत्वा यावदाज्ञां 'प्रतिशृण्वन्ति' स्वीकुर्वन्ति। | ६७ प्रतिश्रुत्य सिद्धार्थस्य क्षत्रियस्यान्तिकात्प्रतिनिष्कामन्ति । प्रतिनिष्क्रम्य क्षत्रियकुण्डग्रामनगरस्य मध्यंमध्येन भूत्वा यत्रैव खमलक्षणपाठकानां गृहाणि सन्ति, तत्रैवोपागच्छन्ति । उपागत्य खामलक्षणपाठकान् शब्दयन्ति ।
For Private And Personal Use Only