________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
मजणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ । उवागच्छित्ता सीहासणसि पुरत्थाभिमुहे निसी| अइ । निसीइत्ता अप्पणो उत्तरपुरच्छिमे दिसिमाए अट्ठ भद्दासणाई सेअवस्थपञ्चुत्थयाई सिद्धत्थयकयमंगलोवयाराई रयावेद ॥ ६४॥
रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडिअं अहिअपिच्छणिज्जं, महग्यवरपट्टणुग्गय, सणहपट्टभत्तिसयचित्तताणं, ईहा| मिअ-उसम-तुरग-नर-मगर-विहग-चालग किन्नर-कर-सरभ-चमर कुंजर-चणलय-पउमलयभत्तिचितं अभितरियं जवणिों अंछावेद ।। ऐश्वर्यानुभवनान्नरेषु इन्द्रः, एवं नरवृषभो राज्यधुराधरणात्, नरसिंहः शौर्यातिशयात्, अभ्यधिकराजतेजोलक्ष्म्या दीप्यमानो मज्जनगृहात्प्रतिनिष्कामति । | ६४-मजनगृहात्प्रतिनिष्क्रम्य यत्रैव बायोपस्थानशाला तत्रैवोपागच्छति । उपागत्य सिंहासने 'पौरस्त्या-| भिमुखः' पूर्वदिक्सम्मुखो निषीदति। निषद्य च आत्मन उत्तरपौरस्त्ये-ईशानाख्ये दिग्विभागे अष्टौ भद्रासनानि श्वेतवस्त्रप्रत्यवस्तृतानि 'सिद्धार्थकैः' श्वेतसर्षपैः कृतः मङ्गलार्थ 'उपचारः' पूजा येषु,तानि 'रचयति' स्थापयति। | ६५-रचयित्वा'आत्मनः' स्वस्य 'अदूरसामन्ते' नातिदूरे नातिसमीपे च नानामणिरत्नमण्डितां' शोभमानां, अधिकं 'प्रेक्षणीयां दर्शनीयां 'महार्थी' बहुमूल्यां 'वरे पत्तने प्रधाने वस्त्रोत्पत्तिस्थाने च 'उद्गतां' निष्पन्नां, पुनः श्लक्ष्णं यत्पदृसूत्रं, तन्मयो 'भक्तिशतैः रचनाशतैश्च चित्रस्तानको यस्यां। तथा 'ईहामृगाः' वृकाः, वृषभास्तुरगाः नराः मकराः प्रतीताः, 'विहगा' पक्षिणः 'व्यालकाः' सर्पाः, किन्नराः-देवाः, 'रुरवः' कृष्णसारमृगाः 'शरभाः' अष्टापदा-महाकाया आटव्याः पशवः, चमर्यो धेनवः, कुञ्जराः वनलताः पद्मलताः प्रतीतास्तेषां
For Private And Personal Use Only