________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०३
राहिं उद्धृच्चमाणीहिं मंगल्लजयसद्दकयालोए अणेगगणनायग-दंडनायग-राईसर-तलवर-माडंविअ-कोडंधिअ-मंति-महामंति-गणग-दोवारिअ
सूत्र ६३ | अमच्च-चेड-पीढमहनगर-निगम-सिट्ठि-सेणावइ-सत्थवाह-दूअ-संधिवालसद्धिं संपरिखुडे धवलमहामेहनिग्गए इव गहगणदिपंतरिक्खतारा- *मजनगृहागणाण मज्झे ससिव पियदसणे नरवई नरिंदे नरवसहे नरसीहे अन्भहिअरायतेअलच्छिए दिप्पमाणे मजणघराओ पडिनिक्खमइ ॥ ६३ ॥
शनिष्क्रमणइति शेषः। मङ्गलभूतो जयशब्दः कृतो लोक 'आलोके दर्शने यस्य । पुनरनेके ये 'गणनायका' स्वखसमु
वर्णनं दायाध्यक्षाः 'दण्डनायकाः' तन्नपालाः, स्वराष्ट्रचिन्तका इत्यर्थः । 'राजानों माण्डलिकाः 'ईश्वरा' युवराजाः
| सिद्धार्थस्य 'तलवराः' तुष्टभूपदत्तपबन्धभूषिताः 'माडम्बिकाः' छिन्नमडम्बाधिपाः, सर्वतोऽर्धयोजनात्परतोऽवस्थितप्रामाणि | मडम्बानि । 'कौटुम्बिका' कतिपयकुटुम्बाध्यक्षा: ग्राममहत्तरा वा, 'मन्त्रिणः' सचिवाः दिवान इति लोके 'महामत्रिणः' मन्त्रिमण्डलमुख्याः 'गणकाः' ज्योतिषिकाः 'दौवारिकाः' द्वारपालाः 'अमात्या' नृपसहजन्मानो मन्त्रिणः 'चेटाः' दासाः 'पीठमर्दकाः' आसन्नसेवकाः 'नागराः' नगरवासिनः 'निगमाः' वणिजः 'श्रेष्ठिनों नगरमुख्यव्यवहारिणः 'सेनापतयः चतुरङ्गसेनाधिपाः 'सार्थवाहा' सार्थनायकाः 'दूताः' अन्येभ्यो राजादेशनिवेदकाः 'सन्धिपालाः' राज्यसन्धिरक्षकाः, एतैस्सर्वैः साई सम्परिवृतः सन् मज्जनगृहात्प्रतिनिष्कामति, तत्रोपमामाह-धवलमहामेघान्निर्गतः 'इव' यथा ग्रहगणेन दीप्यमान-ऋक्षनक्षत्र]तारागणानां मध्ये वर्तमान: शशी, तद्वत् प्रियदर्शनः । अत्र ग्रहगणक्षतारागणतुल्यः प्रागुक्तः परिवारः, शशितुल्यस्तु नृप इति । यथा हि वादेलान्निर्गतो नक्षत्रादिपरिवृतश्च शशी प्रियदर्शनो भवति तथा सोऽपि नूप इति भावः। 'नरपतिः' प्रजापालका 'नरेन्द्रो,
For Private And Personal Use Only