SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandir पर्युषणा हयकयंबपुष्फगं पिव समूस्ससिअरोमकूवा सुविणुग्गहं करेइ । करित्ता सयणिजाओ अब्भुटेइ । अब्भुट्टित्ता पायपीढाओ पचोरुहह । पञ्चोरुहित्ता अतुरिअमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिजे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छद, कल्पार्थ उवागच्छित्ता सिद्धत्थं खत्तियं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणोर(मणा)माहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं बोधिन्याः Xमंगल्लाहिं सस्सिरीयाहिं हिययगमणिजाहिं हिययपल्हायणिजाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेइ ॥४९॥ व्या०३ ग्रह स्मरणं करोति । कृत्वा च शयनीयादभ्युत्तिष्ठति । अभ्युत्थाय पादपीठात्प्रत्यवतरति । प्रत्यवतीर्य 'अत्वरि॥४९॥ तया'मानसौत्सुक्याभाववत्या 'अचपलया' कायचापल्यरहितया 'असम्भ्रान्तया' स्खलनारहितया 'अविलम्बितया' विलम्बरहितया राजहंससदृश्या गत्या, गच्छन्ती सतीतिशेषः। यत्रैव शयनीयं सिद्धार्थस्य, यत्रैव सिद्धार्थ: क्षत्रियस्तत्रैवोपागच्छति । उपागत्य सिद्धार्थ क्षत्रियं 'ताभिवक्ष्यमाणखरूपाभिः 'इष्टाभि'वल्लभाभिः 'कान्ताभिः' सदाऽभिलषणीयाभिः 'प्रियाभिः' अद्वेष्याभिः 'मनोज्ञाभिमनोविनोदिकाभिः 'मनोरमाभिः' मन:प्रियाभिः, यद्वा मनसि 'अम्यन्ते गम्यन्ते सदा, न कदापि विस्मार्यन्ते यास्ता मनोमास्ताभिा, पुनरुदाराभिः' ध्वनिवर्णोच्चारादिसुन्दराभिः 'कल्याणाभिः' आरोग्यसमृद्धिकारिकाभिः 'शिवाभि'रुपद्रवहन्त्रीभिः "धन्याभिः' धनलम्भिकाभिः 'माङ्गल्याभिः' मङ्गलकरणे साध्वीभिः 'सश्रीकाभिः' अलङ्कारादिशोभिताभिः 'हृदयगमनीयाभिः' सुबोधत्वात्कोमलत्वाच हृदयं गच्छन्ति यास्ताभिः। पुनः 'हृदयप्रह्लादनीयाभिः' हृद्गतशोकायुच्छेदिकाभिः, पुनर्मिताः' खल्पशब्दबहाः 'मधुराः' श्रोत्रसुखावहाः 'मञ्जुलाः' सुललितवर्णमनोहरा यास्ताभिः। एतादृशीभिर्गीभिः 'संलपन्ती' जल्पन्ती २ 'प्रतिबोधयति' जागरयति । सूत्रं ४९ कल्याणफलसूचकखमावलोकनार्षितायास्त्रिशलायाः सिद्धान्तिके । गमनं जागरणं च सिद्धार्थस्य | ॥४९॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy