________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
BORGARSASSESSASSASSAGGAS
ऋरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायिनां धीवराणां तैलिकलोहकारभृष्टकर्मकारकादीनां चामोदेशनगराघवचनधनव्ययपुरस्सरमारम्भनिवारणेन देशनगरग्राममध्येऽमारिघोषणाकरणेन च जीवदया कलिकालसर्वज्ञ- दावमारि श्रीहेमचन्द्रसूरिप्रतिबोधितश्रीपरमार्हतकुमारपालमहाराजवच्छ्रीहीरसूरीश्वरप्रतियोधिताऽकबरपादशाहिवच सु-है।
| घोषणा खार्थिभिः पालयितव्या, यतस्सर्वधर्मस्य सारभूता जीवदयैवाऽविसंवादिनी, तदुक्तमन्यैरपि
कारयित___ "श्रूयतां धर्मसर्वखं, श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि, परेषां न समाचरेत् ॥१॥” इति, ।
व्याऽत्रेत्यअनुमानञ्चात्र-जीवदया सुखार्थिभिरासेवनीया सुखहेतुत्वात्, यत्सुखहेतुभूतं तत्सुखार्थिभिरासेवनीयम् ,
धिकारः। यथाऽऽहारादिकं, सुखहेतुभूता च जीवदया तस्मात्सुखार्थिभिरासेवनीयेति । उक्तश्च-"सर्वाणि सत्वानि सुखे रतानि, सर्वाणि दुःखाच समुद्विजन्ते। तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि" ॥१॥ इति । अभयदानप्राधान्यख्यापनार्थ पञ्चराज्ञीदृष्टान्तमुच्यते
आसीद्वसन्तपुरपत्तनभूमहेन्द्रो, नानारिपूर्वदमनो वरसद्गुणाढ्यः । आसंस्तदीयदयिताः शुभशीलवत्यः, पञ्चाथ ताभिरसमं बुभुजे स सौख्यम् ॥१॥ दीनान्धदुःखितजनेषु दयालबो ये, खल्पोऽपि यान् स्पृशति नैव मदो धनानाम् । व्यग्रा भवन्ति सततश्च परोपकारे, ये याचिताः परमतुष्टिमवानुवन्ति ॥२॥
श्रीपर्यु०२
For Private and Personal Use Only