SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां आश्रवस्खरूपं तत्त्यागोपदेशश्च। आश्रवः? किं च तल्लक्षणमिति चेत्, उच्यते, आश्रवति-प्रविशति कर्माऽऽत्मनि येन स आश्रवः, कर्मोपादान- हेतुः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहभेदैः पञ्चसङ्ख्यकः, तत्र निर्लोभीभूयाऽष्टदिनावधि स्वयं परतश्च क्रियमाणहद्दादिपापव्यापारस्य निर्वाहाभावे च स्वयं हद्दाद्यारम्भस्य खण्डनपेषणवस्त्रक्षालनादेश्च "एगग्गचित्ता जिणसासणम्मि, पभावणापूअपरायणा जे। पवे न भुत्ते सचिअं (ठवियं) सुचित्तं, भवण्णवं गोयम! ते तरंति ॥१॥" इति सिद्धान्तोक्त्या महाफलं ज्ञात्वा सचित्ताहारसचित्तजलपानादेश्च प्रत्याख्यानं कृत्वा प्रथमाश्रवत्यागः कर्तव्यः, प्रत्याख्यानरजुना मनोऽश्वनिग्रहे सत्येवाऽऽश्रवद्वारनिवृत्तेर्महाफलत्वात् , तदुक्तम् "पच्चक्खाणम्मि कए, आसवदाराइँ हुति पिहियाइं । आसववुच्छेएणं, तण्हावुच्छेयणं होई ॥१॥" तण्हावुच्छेएणं, अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो, पञ्चक्खाणं हवइ सुद्धं ॥२॥ 'पञ्चक्खाणमिणं से-विऊण भावेण जिणवरुद्दिटं। पत्ताऽणंता जीवा, सासयसोक्खं लहुं मोक्खं ॥२॥ इति। १ एकाग्रचित्ता जिनशासने प्रभावनापूजापरायणा ये। पर्वणि नभुक्तवन्तः सचितं (स्थापित) सुचित्तंभवार्णवं गौतम! ते तरन्ति ॥१॥ २ प्रत्याख्याने कृते आश्रवद्वाराणि भवन्ति पिहितानि । आश्रवव्युच्छेदेन तृष्णाव्युच्छेदनं भवति ॥१॥ ३ तृष्णाव्युच्छेदेनातुलोपशमो भवेत् मनुष्याणाम् । अतुलोपशमेन पुनः प्रत्याख्यानं भवति शुद्धम् ॥ २॥ ४ प्रत्याख्यानमिदं सेवित्वा भावेन जिनवरोद्दिष्टम् । प्राप्ता अनन्ता जीवाः शाश्वतसौख्यं लघु मोक्षम् ॥ ३॥ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy