________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषणपर्वकल्पप्रभायां
अभयदानप्राधान्यख्यापनार्थ पञ्चराज्ञीदृष्टान्तनिरूपणम् ।
॥७॥
नो यौवनोद्धतमदाहतसद्विचाराः, नो कोपवातपरिकम्पितधर्मवृक्षाः। नो लोभतस्करपराहृतधैर्यवित्ताः, तैर्धार्यतेऽत्र धरणी कलिभारभुना ॥३॥ इत्थं महर्षिवचनश्रवणाचतस्रो, भूपप्रिया हृदि परोपकृतिप्रतिज्ञाम् । दधुस्तदैव च हृतान्यधनं तु चौरं, ता नीयमान मिह राजभटैरपश्यन् ॥४॥ ता राजकीयपुरुषविदितापराधा, दृष्ट्वा स्थितं परिकरैस्सहितं गवाक्षे। नम्रोक्तिवर्यविनयैस्खपति प्रसाद्यै-कैकाहिकोपकृतिकं वरमापुराशु॥५॥ एकैकवासरमनुक्रमतः सहस्र-र्दीनारकैर्दशसहस्रमितैश्च लक्षः। तत्कोटिभिश्च बहुधा व्ययितैः स चौरः, सत्कारितो नरपतेः कृपयाऽऽशु ताभिः॥६॥ "गोकाश्चनक्षितितलादिकदानवीरा भूमौ लसन्ति पुरुषा बहुधाऽधुनापि । आजीवमर्पयति योऽभयमङ्गिनांद्रा-गेकोऽपि दुर्लभतरः स नरः पृथिव्याम् ॥७॥ अन्यप्रदानजफलं क्षयमेति किश्चि-दत्राप्यपूर्वसुरसौख्यफलं प्रदाय। अक्षीणमोक्षफलमप्यऽभयप्रदानं, दत्ते जनेभ्य इति भो अभयं ददध्वम्॥८॥ या पञ्चमी नृपतिपत्यतिदुभंगा सा, श्रुत्वोपदेशवचनं नृपतिं ययाचे । चौराय चाऽभयवरं प्रवितीर्य तस्यै, तत्प्रार्थनाहतिभयेन स चाऽऽपि तेन ॥९॥
For Private and Personal Use Only