SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाहम्। रहस्येषु । अत्र तु रहस्यमपि प्रकटीकर्त्तव्यमित्यभिप्रेत्य प्रातिविकमुपपत्त्यभिधानम् । अनुग्रहश्चरितव्यप्रायश्चित्तविशेषोपदेशः । उपसदनयोग्यं परिषद्विशेषं दर्शयितुं दिजान् विशिनष्टि,मुनिवनोगतान् धर्मान् गायन्तो वेदपारगाः। पतन्तमुरेयुस्तं धर्मज्ञाः पापसङ्करात् ॥ ३५॥ वनोगतान् गायन्तइत्यनेन धर्मशास्त्रमुच्चार्य प्रायश्चित्तं वदेयुरित्यतं भवति । युक्तं चैतत् । तथा मति, प्रामादिकान्यथाऽभिधानशङ्काऽनुदयात्। यद्यपि चण्डालमहवासएकमेव पापं, तथापि तस्मिन् सत्यनुष्ठितानां नित्यनैमित्तिकानां बहनां वैकल्यसम्भवमभिप्रेत्य पापसङ्करादित्युक्तम् ॥ परिषदाऽभिधेयं व्रतविशेषं दर्शयति,दधा च सर्पिषा चैव क्षीरगोमूत्रयावकम्। भुञ्जीत सह मृत्यैश्च घिसन्यमवगाहनम् ॥३६ ॥ दध्ना सर्पिषा च संयुक्रमिति शेषः। ग्टहस्वामिवगृहवासिनोबालवृद्धादयः सर्वेऽपि यावकभोजनत्रिसन्ध्यावगाहने कुर्युः ॥ तत्र दध्यादौनां सर्वेषां समाहारप्रसको विभजते,त्यहं भुञ्जीत दधा च त्यहं भुञ्जीत सर्पिषा। त्यहं श्रीरेण भुञ्जीत एकैकेन दिनचयम् ॥ ३७॥ ___दना संयुकं गोमूत्रयावकं दिनत्रयं भुञ्जीत। तचौरयोरप्येवमेव योज्यम्। तथा मति, नव दिनानि सम्पद्यन्ते। पुनरयेकैकेन For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy