________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधव:
६ या
दशरात्रोपवासस्य पराकसमत्वात् । यत्तु हारौतेनोक्रम्,
"चाण्डालान्नं प्रमादेन यदि भुनौत यो दिजः । ततश्चान्द्रायणं कुर्य्यात् मासमेकं व्रतं चरेत् ।।
द्रो वाऽप्यर्द्धमास वै भुक्ता चैव जितेन्द्रियः । त्रिरात्रमुपवासच ब्राह्मणांस्तर्पयेत् शुचि:"-दति ॥ तगोमूत्रयावकाहारारुकविषयम्। बुद्धिपूर्वकस्य चिरकालानु वृत्तौ मनुनोतं द्रष्टव्यम्,
"चण्डालान्यस्त्रियो गत्वा भुक्ता च प्रतिग्टह्य च ।
पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति"-दति ॥ अत्र चौर्णव्रतस्य पुनरूपनयनं कूर्मपुराणे दर्शितम्,
"चाण्डालान्नं दिजो भुक्का सम्यक् चान्द्रायणं चरेत् ।
बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च"-इति ।। वसिष्ठोऽपि। “चण्डालपतितानभोजने पुनरुपनयनम्" इति ।
अथ कञ्चित्कालमेकस्मिन् ग्रहे चण्डालेन सह व्यवहर्त्तरविज्ञातस्तु चण्डाल इत्यादिना, भूमिदोषो न विद्यते इत्यन्तेन, श्लोकसमूहेन प्रायश्चित्तमाह,अविज्ञातस्तु चण्डालो यत्र* वेश्मनि तिष्ठति । विज्ञाते तूपसन्नस्य दिजाः कुर्वन्त्यनुग्रहम् ॥३४॥
अनेन लोकेन परिषदुपसत्तिर्विहिता। यद्यपि सर्वेषु प्राय श्चित्तेषु परिषदुपसत्तिः समाना, तथापि प्रकटपापेष्वेव सा न तु
1
* यस्य,- इति मु।
For Private And Personal Use Only