________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
अज्ञानपूर्वकचण्डालान्नभोजने प्रायश्चित्तमाह,भुक्तेऽज्ञानात् दिजश्रेष्ठश्चण्डालान्नं कथञ्चन । गोमूत्रयावकाहारो दशरात्रेण शुद्ध्यति ॥ ३२॥
स्पष्टम् ।।
तत्प्रमाणमाह,एकैकं ग्रासमश्नीयाद् गोमूत्रं यावकस्य च । दशाहं नियमस्थस्य व्रतं तत्र विनिर्दिशेत् ॥ ३३ ॥
गोमूत्रेण पाचितं यद्यवमयमन्त्रं, तस्य ग्राममेकैकमेकैकस्मि-- न्दिने भुनौत। नियमः स्नानादिः। तदाह याज्ञवल्क्यः,
"बानमौनोपवासेज्याखाध्यायोपस्थनिग्रहः ।
नियमा गुरुशुश्रूषाशौचाक्रोधाप्रमादता”- इति । ईदृशनियमनिष्ठस्य तद्यावकाहारव्रतं निर्दित् । बुद्धिपूर्वके बङ्गिरा आह,
"अन्यावमायिनामन्त्रमन्त्रीयाद्यश्च कामतः ।
म तु चान्द्रायणं कुर्यात् तप्तच्छ्रमथापिवा"-इति ॥ अन्यावसायिनश्चण्डालादयः। तांश्च मएवाह,
"चण्डाल: श्वपचः चत्ता सूतोवैदेहकस्तथा ।
मागधायोगवौ चैव सर्वे ह्यन्यावसायिनः” इति । श्रामपक्कयोश्चण्डालाबयोईतभेदमाह विष्णुः। “चाण्डलानं भुङ्का त्रिरात्रमुपवसेत् सिद्धं भुक्ता पराकः” इति। अत्र मूलवचनोकगोमूत्रयावकाहारः सिद्धान्न विषयो भविष्यति। यावकसहितस्य
For Private And Personal Use Only