________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
[६ घ०।
चरेत् मान्तपनं विप्रः प्राजापत्यन्तु भूमिपः ।
तदई तु चरेद्वैश्यः शूटे पादं विनिर्दिशेत्”- इति ॥ चण्डालभाण्डोदकपानप्रसङ्गादितरान्यजभाण्डोदकादिपानेऽपि प्रायश्चित्तमाह,भाण्डस्थमन्त्यजानान्तु जलं दधि पयः पिवेत् । ब्राह्मणः क्षत्रियोवैश्यः शूद्रश्चैव प्रमादतः ॥ ३० ॥ ब्रह्मकर्णोपवासेन द्विजातीनान्तु निष्कृतिः। शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥ ३१ ॥ अन्त्यजारजकादयः ।
"रजकश्चर्मकारश्च नटोबुरुड़एवच ।
कैवर्त्तमेदभिल्लाश्च सप्त ते चान्यजाः स्मृताः” इति स्मरणात् । ब्रह्मकूर्चमाचार्यएवोपरिष्टावक्ष्यति । तत्महितउपवासः त्रैवर्णिकस्य । तद्रहितस्य चतुर्थस्य ब्रह्मकूर्चस्थाने यथाशक्ति दानं द्रष्टव्यम् । श्रामादिषु भाण्डान्तरं प्राप्तेषु नास्ति कश्चिद्दोषः । तथा चतुर्विंशतिमते,
“श्राममांसं हतं क्षौद्रं खेहाश्च फलसम्भवाः ।
अन्यभाण्डस्थिता ह्येते निक्रान्ताः शुचयः स्मृताः" इति ।। महत्सु तु तटाकादिषु चण्डालादिसम्बन्धेऽपि नास्ति कश्चिद्दोषः, अन्त्येषु तु कूपवत् न्यायः । तदाह विष्णुः,
"जलाशयेष्वथाल्पेषु स्थावरेषु महौतले। . कूपवत्कथिता द्धिर्महत्सु तु न दूषणम्" इति ॥
For Private And Personal Use Only