SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६ का ० 1] प्रायवित्तकाण्डम् । चण्डालघरसंस्थन्तु यत्तोयं पिवति द्विजः । तत्क्षणात् क्षिपते यस्तु प्रजापत्यं समाचरेत् ॥ २७ ॥ यदि न क्षिपते तोयं शरीरे यस्य जीर्य्यति । प्रजापत्यं न दातव्यं कृच्छ्रं सान्तपनं चरेत् ॥ २८ ॥ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथममज्ञानात् पौला पश्चात्तदानीमेव विज्ञाय यदि वमेत् तदा प्राजापत्यं तन्नीर्णे सान्तपनं कृच्छ्रं परिषदा दातव्यं, न तु प्राजापत्यम् । एतस्याज्ञानविषयत्वमङ्गिरादर्शयति, - “चण्डालपरिग्टहीतमज्ञानादुदकं पिवेत् । तस्य शुद्धिं विजानीयात् प्राजापत्येन नित्यशः ॥ यस्तु चण्डालसंस्पृष्टं पिवेत् किञ्चिदकामतः । स तु सान्तपनं कृच्छ्रं चरेत् शुद्ध्यर्थमात्मनः ” – इति । यत्तु देवलेनोक्तम्,– ➖➖ प्यू “यस्तु चाण्डालभाण्डस्थमज्ञानादुदकं पिवेत् । स तु त्र्यहेण शुद्येत्तु शुद्रस्त्वेकेन शड्यति” - इति ॥ तदापद्विषयम् । वुद्धिपूर्वकं तत्पाने वर्णभेदेन प्रायश्चित्त माह, चरेत् सान्तपनं विप्रः प्राजापत्यमनन्तरः । तदईं तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥ २८ ॥ अनन्तरः चत्रियः । एतस्य बुद्धिपूर्वविषयत्वमापस्तम्बश्राह, “चण्डालभाण्डकूपस्यं जलं यः ज्ञानतः पिवेत् । प्रायश्चित्तं कथं तत्र वर्षे वर्षे विनिर्दिशेत् ॥ For Private And Personal Use Only W
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy