________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकासम् ।
१८५
तस्थायमभिप्रायः। तत्र यामानुमतिः,
“प्रतियहः प्रकाशः स्यात् स्थावरस्य विशेषतः" । इति स्मरणात्. व्यवहारप्रकाशनार्थमेवापेक्ष्यते न पुनामानुमतिमन्तरेण यवहारो न मियतीति । सामन्तानुमतिरपि सौमाविप्रतिपत्तिनिरामार्थम् । एवं तदनुमतिरपि* विभक्तसंशययुदासेन व्यवहारमौकर्यार्थमेव । हिरण्योदकदानमपि विक्रये कर्तव्ये महिरण्योदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्यादित्येवमर्था ।
"स्थावरे विकयो नास्ति कुर्यादाधिमनुज्ञया"-इति खावरविक्रयस्थ निषिद्धत्वात् ।
“भूमि यः प्रतिवाति यश्च भूमि प्रयच्छति ।
तावुभौ पुण्यकाणै नियतं स्वर्गगामिनौ”-इति दामप्रतियहयोः प्रशस्तत्वाच। विभागापलापे निर्णयकारमाह यावसक्यः,
"विभागनिहवे? ज्ञातिबन्धुमाचिविलेखनः । विभागभावना ज्ञेया सहक्षेत्रैव यौतकैः" इति ।
* इत्यमेव सर्वत्र पाठः। दायादानुमतिरपि,-इति पाठो मम
प्रतिभाति । + हिरण्योदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्यादित्येवमर्थः
इति का। 1 स्थावरे विक्रयं कुर्यान दानमननुज्ञया, इति शा।
निर्णये,-इति शा.। || राष्ट्रविलेखितः, इति का।
49
For Private And Personal Use Only