________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८४
पराशरमाधवः ।
ताखतन्त्राणां यवीयसामित्येवंप्रतिपादनपरम् । न तु ज्येष्ठस्यैव दोषप्रतिपादनपरम् । अन्यथा स्मृत्या श्रुतेः सङ्कोचापत्तेः । विभकानां कर्त्तव्यमाह नारदः,
"यद्येकजाता बहवः पृथग्धाः पृथक्रियाः । पृथक्कर्मगुणोपेता न चेत् कार्येषु सम्मताः ।। स्वभागान् यदि दास्ते विक्रीणीयुरथापि वा।
कुर्युर्यथेष्टं तत्सर्वमौ शास्ते खधनस्य च”-इति । एकस्माजाता विभकाभ्रातरः परस्परानुमतिमन्तरेण धनमाध्येष्टापू दिधर्मकारिणो मवेयुः । तथा, धनसाध्यऋष्यादिकर्मकारिणो भवेयुः। तथा, विभिन्नोलखलमुसलादिकापसर्जनद्रव्योपेताः स्युः। तथाच कार्येषु भ्रातरो यदि न सम्मताः, तदा ताननादृत्य कायं कुर्युः । तथा, विभक्का भ्रातरः स्वभागान् यदि दद्युर्विक्रीनौयुर्वा, न दधुर्वा, तत्सर्वं यथेष्टं कुयुः । यस्मात्ते विभनाः स्वधनस्येशाः खतन्त्राः स्वामिन इत्यर्थः । यत्तु वृहस्पतिवचनम्,
"विभक्ता वाऽविभक्का वा दायादाः स्थावरे समाः ।
एको हनौशः सर्वत्र दानाधमनविक्रये” इति। तदेवं व्याख्येयम् । अविभक्केषु द्रव्येषु साधारणत्वादेकस्थानौश्वरत्वात् सर्वैरनुज्ञाऽवश्यं कार्यो । विभक्के वृत्तरकालं विभक्तसंशययुदामनमौकर्याय सर्वाभ्यनुज्ञा। न पुनरेकस्यानौश्वरत्वेन। अतो विभकानुमतिव्यतिरेकेणापि व्यवहारः सिध्यत्येवेति । यत्तु स्मृत्यन्तरम्,
"खग्रामज्ञातिमामन्तदायादानुमतेन च। .. हिरण्योदकदानेन षभिर्गच्छति मेदिनी"-इति।
For Private And Personal Use Only