________________
Shri Mahavir Jain Aradhana Kendra
३८
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
विक्रीय वस्त्राभरणमृणमुद्दाट्ट् लेखितम् । ani वा कृतानेन परिवर्त्य विभज्यते ॥ उद्धृत्य कूपवाष्यम्भस्त्वनुसारेण गृह्यते । एकां स्त्री कारयेत् कर्म यथाऽशेन गृहे गृहे ॥ समां तो देया दामानामप्ययं विधिः ।
योगक्षेमवतो लाभः समत्वेन विभष्यते ॥
प्रचारच यथाऽंशेन कर्त्तव्यो क्थिभिः सह " - इति । तेन वस्त्रादीनामविभज्यत्वप्रतिपादकं मनुवचनमुशनोवचनं चानादरणीयम् । तदनुपपन्नम् । विरोधे हि वचनानां विषयव्यवस्थाऽऽश्रयणं युक्तं, न चान्यथाकरणम् । बृहस्पतिवचनानान्तु अष्टतवस्त्रादिविषयत्वम्, मन्वादिवचनस्य तु धृतवस्त्रादिविषयत्वम् पूर्वमेवोक्रमिति विषयव्यवस्था घटते इति ।
विभागकाले केनचिदञ्चितं पचादुद्भावितं चेत्, तत्सर्वं समं विभजेयुः । तथाच याज्ञवल्क्यः,
“श्रन्योन्यापहृतं द्रव्यं विभक्ते यन्तु दृष्यते ।
तत्पुनस्ते समैरंशैः विभजेरनिति स्थितिः”– इति । समशब्दो विषमविभागनिरासार्थः । विभजेरन्निति बहुवचनेन येन दृष्टं तेनैव म ग्रायमिति दर्शयति । मनुरपि,
“सृणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि । पक्षाश्येत यत्किञ्चित् तत्सर्वं समतां नयेत्” इति । अपहृतद्रव्यवच्छास्त्रोकानतिक्रमेण विषमभागतया * विभक्तमपि
* विषमभागयता, - इति नाखि का० पुस्तके |
For Private And Personal Use Only