SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ पराशरमाधवः। शौर्यादिनाऽऽप्नोति धनं भ्रातरस्तव भागिनः ।। तस्य भागदयं देयं भेषास्तु समभागिनः" इति । अन्यदप्यविभाज्यमाह मनुः, "वस्त्रं पत्रमलङ्कारं कृतानमुदकं स्त्रियः । योगक्षेमप्रचारञ्च न विभाज्यं प्रचक्षते"-इति । वस्त्रं तं वस्त्रम् । पिढतं वस्त्रं पितुरूविभागे श्राद्धभोले दातव्यम् । तथाच सहस्पतिः, "वस्वालङ्कारशय्यादि पितुर्यद्वाहनादिकम् । गन्धमान्यैः समभ्यर्च श्राद्धभोक्त्रे तदर्पयेत्” इति । अन्यानि तु वस्त्राणि विभाज्यान्येव । पत्रं वाहनं, पत्रं अश्वशिविकादिवाहनम्। तदपि यद् येनारूढं तत्तस्यैव । अनारूढं तु सर्वैविभाज्यम् । अलङ्कारोऽपि यो येन धृतः, स तस्यैव। अतः साधारण विभाज्य एव, "पत्यौ जीवति यत् स्त्रौ भिरलङ्कारो तो भवेत् । न तं भजेरन् दायादाः भजमानाः पतन्ति ते"-इति तेनैव त इति विशेषेणोपादानात् । कृतान्नं तण्डुलमोदनादि । तदपि यथासम्भवं भोक्रव्यम् न विभाज्यम् । उदकं तदाधारः कूपादिः । सोऽपि विषमः पर्यायेणोपभोक्रव्यो न मूल्यदारेण विभाज्यः । स्त्रियश्च दास्यो विषमाः पर्यायेण कर्म कारयितव्याः । तथाच सहस्पतिः, "एका स्त्रौं कारयेत् कर्म यथाशेन ग्टहे रहे । बयः ममांगतो देया दासानामप्ययं विधिः” इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy