SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । “सर्वमद्धं त्रिपादञ्च पादश्चैव व्रतं चरेत् । वर्णक्रमादन्तरजहिंभागमनभोजने” इति । यदि चण्डालश्वपाको चौरौ स्यातां, तदा तयोर्बधे स्वल्पं प्रायश्चित्तमाह,चौरः श्वपाकश्चण्डालो विप्रेणाभिहता यदि। अहोराचोषितः सात्वा पञ्चगव्येन शुद्ध्यति ॥२१॥ ___ यदि विप्रेणाभिहतस्तदा म विप्रः शड्यतीति योजना । यद्यपि चण्डालबधो नोपपातकेषु परिगणितः, तथापि मनुष्यबधसामान्येन तत्रान्तर्भावमभिप्रेत्य तत्प्रकरणे प्रायश्चित्तमुक्रम् । चण्डालप्रसङ्गात् तद्विषयाणं प्रकीर्णकानामपि केषाञ्चित् प्रायश्चित्तमत्राभिधीयते । तत्र संभाषणे प्रायश्चित्तमाह,श्वपाकं वाऽपि चण्डालं विप्रः सम्भाषते यदि। दिजसम्भाषणं कुर्यात् सावित्री तु सकृज्जपेत् ॥२२॥ विजशब्देनानूचानो विप्रो विवक्षितः । नौचविप्रसम्भाषणस्य प्रायश्चित्तरूपत्वासम्भवात् । विजमानिध्याभावे गायत्रीजपः,इत्यनुकल्पोद्रष्टव्यः । अतएव हारौतो विकल्पमाह, "चाण्डालैः सह सम्भाव्य दिजसम्भाषणात् शचिः । सावित्रौं व्याहरेदाऽपि इति धर्मा व्यवस्थितः” इति ॥ सम्भाषमाणो विप्रो यधुच्छिष्टः स्यात्, तदा त्रिरात्रोपवाममाह सएव, "उच्छिष्टः मह सम्भाषेत् त्रिरात्रेणेव शुद्ध्यति" इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy