________________
Shri Mahavir Jain Aradhana Kendra
Co
www. kobatirth.org
पराशरमाधवः ।
[६ प० ।
चण्डालं हतवान् कञ्चिद्ब्राह्मणेो यदि कञ्चन । प्राजापत्यं चरेत् कृच्छ्रं गोदयं दक्षिणां ददत् ॥ १८ ॥ क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा । चण्डालस्य बधे प्राप्ते कृच्छ्रार्खेन विशुद्ध्यति ॥ २० ॥
Acharya Shri Kailassagarsuri Gyanmandir
वृत्तिभेदेन ब्राह्मणानां भेदेऽपि न प्रायश्चित्तभेद इति विवचितत्वात् कश्चित् - इत्युक्तम् । एवं चण्डालेऽपि कञ्चनेति विशेषणं योजनौयम् । इतरोमूर्द्धावमिसुतादिः । श्रङ्गिरास्वचैव समानप्रायश्चित्तान्तरमाह -
“अन्वजानान्तु गमने भोजने च प्रमापणे ।
पराकेण विश्शुद्धि: स्याद्भगवानङ्गिरोऽब्रवीत् ” - इति ॥
हारौतोऽपि -
“चाण्डालबधसंप्राप्तिर्ब्रह्मणेन भवेद्यदि ।
कारयेद्वादशं कृच्छ्रं तप्तकृच्छ्रं ततो भवेत्” - इति ॥
एतच्च ज्ञानपूर्बके द्रष्टव्यम् । श्रज्ञानपूर्वके तु चान्द्रायणम् । तदाह लौगाचिः,
“हनने प्रतिलोमानां शूद्रजानां कथं भवेत् ।
ज्ञानपू पराक: स्यादज्ञाने चैन्दवं भवेत्” - इति ॥
स्रुतादिबधेऽप्येतदेव । तदाह याज्ञवल्क्यः, -
-
“चान्द्रायणं चरेत् सर्व्वानपरुष्टान् निहत्य तु" - इति । कृच्छ्रार्द्धेनेत्यर्द्धग्रहणं पादस्य पादत्रयस्य चोपलचणम् । श्रतएव
लौगाचिः, -
For Private And Personal Use Only