________________
Shri Mahavir Jain Aradhana Kendra
३५.
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
“श्रपुचेण परचेचे नियोगोत्पादितः सुतः । उभयोरप्यसौ ऋक्यो पिण्डदाता च धर्मतः” - इति । यदा गुर्वादिना नियुक्तो देवरादिः स्वयमप्यपुत्रः सनपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तो यं जनयति स दिपिटको यामुष्यायणोद्वयोरपि ऋक्थहारौ पिण्डदश्च । यदा स्वयं पुत्रवान् परपुत्रार्थमेव परचेत्रे पुत्रमुत्पादयति, तदुत्पन्नः चेचिणएव पुत्रो भवति न वीजिनः । यथोक्तं मनुना, -
“क्रियाऽभ्युपगमादेव बौजार्थं यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बौजी क्षेत्रिकएवच ॥ फलं त्वनभिसन्धाय क्षेत्रिणं बौजिनं तथा ।
प्रत्येकं क्षेत्रिणामा बीजायो निर्बलीयसी" - इति । श्रस्यार्थः । श्रत्रोत्पन्नमपत्यमुभयोरपि भवतु, - इति संविदं कृत्वा
यत् क्षेत्रं खामिना बीजावापार्थं बौजिने दौयते, तस्मिन् क्षेत्रे उत्पन्नस्यापत्यस्य बौजिक्षेत्रिणी स्वामिनौ । यदा तु तचोत्पन्नमपत्यमावयोरस्त्विति संविदमकृत्वा परचेचे बौजिना यदपत्यमुत्पाद्यते, तदपत्यं चेचिणएव न बौजिनः । यतो बौजायो निर्बलीयसौ । गवाश्वादिषु दृष्टत्वादित्यर्थः । गुर्वादिनियोगोऽपि वाग्दत्ताविषयएव । अन्यस्य नियोगस्य मनुना निषिद्धत्वात् ।
"देवरादा सपिण्डाद्वा स्त्रिया सद्भिः नियुक्तया । बौजेपिताऽधिगन्तव्या सन्तानस्य परिक्षये ॥ विधवायां नियुक्तस्तु घृताको वाग्य । निशि । एकमुत्पादयेत्पुत्रं न द्वितौयं कथः ॥
For Private And Personal Use Only