________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवचारकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
३४७
“औरसो धर्मपत्नीजः तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु मगोत्रेणेतरेण वा ॥ गृहे प्रच्छन्न उत्पन्नो गूढ़जस्तु सुतः स्मृतः । कानीनः कन्यकाजातः मातामहसुतो मतः ॥
तयांचयां वा जातः पौनर्भवः स्मृतः । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयं कृतः । दत्तात्मा तु स्वयं दत्तो गर्भे विन्नः सहोदजः ॥ उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । पिण्डदोऽ शहरश्चैषां पूर्वाभावे परः परः " - इति ।
एषां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः पिण्डदः श्राद्धदः, श्रंशहरो धनहर इत्यर्थः । श्ररसपुचिकयोः समवाये औरमस्यैव धनग्रहणे प्राप्ते श्रपवादमाह मनुः,
“पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ।
समस्तत्र विभागः स्यात् ज्येष्ठता नास्ति हि स्त्रियाः” – इति । वसिष्ठोऽपि कचिदपवादमाह । " तस्मिंथेत् प्रतिग्टहोते औरसः प्रतिपद्यते चतुर्थभागभागी स्याद्दत्तकः " - इति । कात्यायनोऽपि - “उत्पन्ने त्वौर से पुत्रे चतुर्थांशहराः सुताः । वर्णाश्रमवर्णा वा ग्रासाच्छादनभाजना: " - दूति । सवर्णः क्षेत्रजदत्तकादयः । ते श्रर से सत्यपि चतुर्थांशहराः । श्रमवर्णाः कानोनगूढोत्पन्नसहोढ़ पौनर्भवा : (१) और से सति न (१) कानीनादीनां प्रच्छन्नोत्पन्नत्वेन न सवर्णत्वमित्याशयः ।