________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६
पराशरमाधवः।
एवं जातिवैषम्ये चाहृणां भगिनौनां च मयया वैषम्ये च सर्वत्रायं नियम इति मेधातिथेाख्यानम् । एतदेव विज्ञानेश्वरयोगिनोऽप्यभिप्रेतम् । भारुचिस्तु। चतुर्भागपदेन विवाहसंस्कारमात्रोपयोगि द्रव्यं विवक्षितम् । अतो दायभावमसंस्कृतकन्यानां नास्तौति मन्यते। तदेव चन्द्रिकाकारस्थाप्यभिप्रेतम् । तदाह । “श्रतएव न दायभागार्थमंशहरणम्, किन्तु विवाहसंस्कारार्थम्। श्रतएव देवलेनोक्रम्,
“कन्याभ्यश्च पिनद्रव्यं देयं वैवाहिकं वसु” इति । अत्र यद्यक्रियुक्तं, तद्ग्राह्यम् । जीवदिभागे तु यत्किञ्चित् पिता ददाति तदेव लभते कन्या, विशेषाश्रवणात् । पियधनाभावे नारदः,
"अविद्यमाने पित्रर्थ खांशादुत्य वा पुनः ।
अवश्य कार्याः संस्काराः सङ्कोचोऽत्र विवक्षित:(१)-इति । भ्रातृणां भगिनौनां च संस्काराः जातकर्माद्याः पूर्वसंस्कृतैः भातभिः पिटधनाभावेऽपि मावश्यकत्वेन कर्त्तव्याः। पैटकद्रव्यविभागकाले खदत्तालङ्कारादिकमपि कन्यका प्राप्नोतीत्याह शङ्खः,
"विभज्यमाने वै दाये कन्याऽलङ्कारमेव हि"-दति । किञ्चित् स्त्रीधनं च लभेतेनि)। मुख्यगौणपुत्राणां वरूपं दायग्रहणक्रमच्चाह याज्ञवल्क्यः,
* इत्यमेव पाठः सर्ववाद पुस्तकेषु। मम तु, पिटद्रव्यात्, इति पाठः समीचीनः प्रतिभाति ।
पिटद्रव्याभावे भाटभगिनीनां संस्कारे व्ययहासः कर्तव्य इत्यभिप्रायः । (२) अयमप्यंशः प्रवचनस्यैव शेषति प्रतिभाति ।
For Private And Personal Use Only