SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । धनविभागकालः। ततश्चैतदुक्तं भवति। पितरूय मातरि जीवन्यामपि पिढ्धनविभागः कार्यः । तथा मातुरूषं पितरि जीवितेऽपि मानधनविभागः कार्यएव। अन्यतरधनविभागे उभयोरूर्ध्वकालप्रतीक्षणानुपयोगादिति । तदुक्तं संग्रहकारेण, "पिटट्रव्यविभागस्य जौवन्यामपि मातरि। अखतन्त्रतयाऽस्वाम्यं यस्मान्मात: पतिं विना ॥ मानद्रव्यविभागोऽपि तथा पितरि जीवति । सत्खपत्येषु यस्मान स्त्रौधनस्य पतिः पतिः” इति । श्रयमर्थः । पतिमरणे पिटभार्यायाः पत्यपरमादखातन्त्र्येण न स्वामित्वं, यस्माचापत्येषु विद्यमानेषु भार्याधनस्य भार्यामरणेऽपि पतिर्न स्वामी, तस्मात्तयोरन्यतरस्मिन् जीवत्यप्यन्यतरधनविभागोयुक्त:-इति । एतेन जीवतोस्तत्तत्ट्रव्यविभागेषु पुत्राणां न खातन्त्र्यमित्यर्थादुकं भवति। तथा शङ्खः। “न जौवति पितरि पुत्रा रिक्थं भजेरन् । यद्यपि स्यात् पश्चादधिगतं, ते अनर्हाएव पुत्राः । अर्थधर्मयोः अखातन्त्र्यात्" इति। अस्यार्थः । यद्यपि जन्मानन्तरमेव पुत्राः पित्धननिमित्तं प्रतिपन्नाः, तथापि पितरि जौवति तद्धनं न विभजेरन्। यतो धर्मार्थयोरस्वातन्त्र्यादिभागकरणेऽनहींः । अर्थावातन्त्र्यं नाम, तदादानप्रदानयोरखातन्त्र्यम्इति। तथाच हारीतः। “जीवति पितरि पुत्राणां अर्थादानविसर्गाक्षेपेष्वस्वातन्त्र्यम्”–दति । अर्थादानमपभोगः। विमर्गीव्ययः । श्राक्षेपोमत्यादेः शिक्षार्थमधिक्षेपादिः। धर्मास्वातन्त्र्यं, पृथगिष्टापूर्तादावप्रवृत्तिः । यत्तु देवलेनोक्रम, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy