SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२८ पराशरमाधवः। "पितर्यपरते तत्र विभजेरन् पितुर्धनम् । अखाम्यं हि भवेत्तेषां निर्दोषे पितरि स्थिते'' इति । तदण्यस्वातन्त्र्यप्रतिपादनपरं। पिलधने पुत्राणां जन्मना स्वाम्यस्य लोकमिद्धत्वात् । ननु शास्त्रेकममधिगम्यस्य स्वत्व स्थ कथ लोकमिद्धता। शास्त्रमिद्धत्वञ्च, “स्वामी क्थक्रयसंविभागपरिग्रहाधिगमेषु । ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशट्रयोः”-दति गौतमवचनादवगम्यते । अप्रतिबन्धोदायो ऋक्थं, न सप्रतिबन्धोदायः । संविभागः सप्रतिवन्धोदायः। अनन्यपूर्वस्य जलढणकाष्ठादेः स्वीकारः परिग्रहः । निध्यादिप्राप्तिरधिगमः । एतेषु निमित्तेषु मत्सु स्वामौ भवति । ब्राह्मणस्य प्रतिग्रहादिना यलब्धं, तदधिकममाधारणम् । चत्रियस्य विजयदण्डादिलब्धं यत्तदसाधारणम् । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं, तदमाधारणम् । शूद्रस्य दिजशबषादिना भृतिरूपेण यखधं, नदसाधारणम् । एवमनुलोमप्रतिलोमजानां स्वखविहिताश्वमारण्यादिना यमन्धं तदधिकमित्यर्थः । तचैव संग्रहकारोन्यायमाह, __ "वर्त्तते यस्य यद्धस्ते तस्य स्वामी भएव म"-इति । अन्यस्खस्यान्यहस्ते स्थितम्य दर्शनेन तस्यैव स्वामित्वापत्तेः । श्रतः शास्त्रकसमधिगम्यं स्वत्वत्वम् । किञ्च, यदि यस्यान्तिके यद्धनं दृष्टं तम्य मएव स्वामी, तमुस्य स्वमनेनापहतमिति न ब्रूयात् । यस्यैवान्तिके दृष्टं तस्यैव स्वामित्वात् । स्वत्वस्य लौकिकत्वे, “योऽदत्तादायिनोहम्ना मित ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तनस्तथैव सः''-दति For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy