SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ पराशरमाधवः । [६ष। "कामतः स्त्रियं हत्वा ब्राह्मण वैश्यवचरेत् । कामतो द्विगुणं प्रोनं प्रदुष्टान्तु न किञ्चन"-इति ॥ अनात्रेयौबधे राजन्यव्रतस्थाभिहितत्वात् श्रात्रेयौबधे ब्रह्महत्याप्रतमिति गम्यते । तथाच यमः, “हत्वा सवनितं वैश्यं राजन्यमपि दीक्षितम् । हत्वा तु ब्रह्महत्यैद तथाऽऽत्रेयौञ्च ब्राह्मणौम्" इति ॥ पात्रेयौलक्षणं च मएवाह, “जन्मप्रभृतिसंस्कारैः संस्कृता ब्रह्मचर्याया। गर्भिणौ वाऽथवा या स्यात्तामात्रेयौं विनिर्दिशेत्” इति। वसिष्ठोऽपि। “रजस्खस्लामृतस्वातामात्रेयोमाहुः । अत्र यदिष्टापत्यं भवतीति”। अनृतुमत्या बधे जातिभेदेन भिन्नप्रायश्चित्तमाह प्रचेताः । “अन्तमतौं ब्राह्मण हत्वा इच्छाब्दं षण्मासान् वेति क्षत्रियां हत्वा षण्मासान्मासत्रयं वेति वैश्यां इत्वा मासत्रयं मार्द्धमासं वेति शूद्रां हत्वा सार्द्धमासं मा त्रयोविंशतिदिनानि वेति"। प्रतिलोमपुरुषसंसर्गणापत्यं लक्षवतीनां बधे ब्रह्मगर्भ "प्रतिलोमप्रसूतानां स्त्रीणां मासा बधे स्मताः। अन्तरप्रभवानाञ्च सूतादीनां चतुर्दिषट्”- इति । ब्राह्मण्या बधे षण्मासाः चत्रियायाश्चत्वारः वैश्याया दाविति योजनीयम् । मूतवैदेहकचण्डालानां बधेऽप्येषेव योजना द्रष्टव्या । इदानी वैश्यादिबधे प्रकारान्तरेण प्रायश्चित्तमाह, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy