________________
Shri Mahavir Jain Aradhana Kendra
१२०
www. kobatirth.org
-
पराशरमाधवः ।
गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः ॥
श्रावेव तु भुजिष्यासु दोषः स्यात्परदारवत् । गम्याखपि हि नोपेयाद्यतस्ताः सपरिग्रहाः " - इति । fromrfect स्वाम्यनवरुद्धा दासी । अनवरुद्धदास्याद्यभिगमने
याज्ञवल्क्यः,
Acharya Shri Kailassagarsuri Gyanmandir
“प्रसह्य दास्यभिगमे दण्डोदशपणः स्मृतः ।
बहूनां यद्यकामा मौ चतुर्विंशतिकः पृथक् ” - इति । पुरुषसम्भोगजौविकास दामौषु स्वैरिण्यादिषु च शुल्कदानमन्तरेण बलात्कारेणाभिगच्छतो दशपणेोदण्डः । श्रनिच्छन्तीमेकां गच्छतां बहूनां प्रत्येकं चतुर्विंशतिपणात्मकोदण्डः । कन्या - हरणे दण्डमाह याज्ञवल्क्यः, -
“अलङ्कृतां हरन् कन्यामुत्तमं त्वन्यथाऽधमम् । दण्डं दद्यात्मवर्ण प्रातिलोम्ये बधः स्मृतः । सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः " - इति । अलङ्कृतां विवाहाभिमुखौं कन्यां अपहरन् उत्तमसाहसं दण्डनौयः । तदनभिमुखौं मवर्ण अपहरन् प्रथमसाहसं दण्डनीयः । उत्तमवर्णजां कन्यामपहरतः चचियादेर्बधएव । श्रानुलोम्येन सकामापहारे तु दण्डो न भवति । श्रकामामपहरन् प्रथमसाहसं दण्डनौयः । कन्यादूषणे तु दण्डमाह सएव -
" दूषणे तु करच्छेद उत्तमायां बधः स्मृतः । शतं स्वौदूषणे दद्याद्धेतु मिथ्याऽभिशंसने ||
पशून् गच्छन् शतं दाप्यो हौनस्वां स्त्रीं च मध्यमम्” – इति ।
For Private And Personal Use Only