SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ परापूरमाधवः। पिटव्यस खिशिव्यस्त्री भगिनी तत्मखौ वषा । दुहिताऽऽचार्यभार्या च सगोत्रा शरणगता ॥ राज्ञी प्रव्रजिता धात्री साध्वौ वर्णोत्तमा च या। श्रासामन्यतमां गच्छन् गुरुतल्पग उच्यते ॥ शिश्नस्योत्कर्त्तनं तत्र नान्योदण्डो विधीयते” इति । प्रतिलोम्येन उत्कृष्टस्त्रीगमने क्षत्रियादेवधः । एतहुप्ता विषयम् । अन्यत्र धनदण्डः । तथाच मनुः, "उभावपि हि तावेव ब्राह्मण्या गुप्तया सह । विप्नुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटामिना ॥ ब्राह्मणों यद्यगुप्तान्तु सेवेतान्यः पुमान् यदि। वैश्यं पञ्चशतं कुर्यात् क्षत्रियन्तु महस्त्रिणम्” इति । शुद्रस्यागुप्तोत्कृष्टस्त्रीगमने लिङ्गच्छेदनसर्वस्वहरणे, गुप्तगमने तु बधर्वखापहारौ । तथाच सएव, "शुद्रोगुप्तमगुप्तं वा वैजातं वर्णमावसन्। अगुप्ते काङ्गभर्वखौ गुप्तौ सर्वेण हीयते” इति । अत्रैव विषये सहस्पतिरपि, "महसा कामयेद्यस्तु धनं तस्याखिलं हरेत् । उत्कृत्य लिङ्गवृषणौ भ्रामयेगर्दभेन तु"-इति । शट्रस्येत्यनुवृत्तौ गौतमः । “आर्यस्त्रियाऽभिगमने लिङ्गोद्धारः मर्वस्वहरणम्” इति । नार्याः पुनो नवर्णगमने नासादिकर्त्तनम् । • पिाश्रम्योत्कर्तनात, ----ति ग्रन्थान्तर धृतः पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy