________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
३१५
प्रार्थयमाना उपरुन्धन्ति महार्पण वा विकोणते, तेषामुत्तममाहसो दण्डः । राजनि मनिहितेऽपि मति, यस्तेनानिरूप्यते, तेनान क्रयो वा विक्रयो वा कार्यः । निस्रवः निर्गतस्त्रवः अवशेषः । तस्माद्राजनिरूपितादर्घात् योनिस्रवः, मएव वणिजां लाभकारी, न पुनः स्वच्छन्दपरिकल्पितादर्घात् । अर्घकरणे विशेषमाह मनुः,
“पञ्चराचे सप्तरात्रे पक्षे मासे तथा गते ।
कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नपः” इति । स्वदेशपण्ये शतपणमूल्ये पञ्चकं लाभार्थं ग्टहीयात्, परदेश्ये तु दशपणं लाभं ग्रहीयात् ; यस्य पण्यग्रहणदिवसएव विक्रयः । यः पुनः कालान्तरे विक्रोणोते, तस्य कालोत्कर्षवशालाभोत्कर्षः कल्यः । देशान्तरादागते पण्ये देशान्तरगमनप्रत्यागमनभाण्डग्रहणाल्कादिस्थानेषु प्रयुक्तमथं परिगणय्य पण्यमूल्येन सह मेलयित्वा, यथा शतपणमूल्ये पण्ये दशपणोलाभः सम्पद्यते, तथा क्रेटविक्रेत्रोरनुग्रहकार्य/राज्ञा स्थापनीयः ।
इति साहसप्रकरणम् ।
अथ स्त्रीसङ्ग्रहणम्। तस्य त्रैविध्यमाह सहस्पतिः,--
"पापमूलं मङ्ग्रहणं त्रिप्रकारं निबोधत । बलोपाधिकृते द्वे तु तृतीयमनुरागजम् ॥
* पञ्चरात्र पञ्चरात्रे पक्षे पक्षे,-इति मुद्रितमनुसंहितायां पाठः ।
For Private And Personal Use Only