________________
Shri Mahavir Jain Aradhana Kendra
३१०
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
मुत्तमसाहसं दण्डनीयौ । यः पुनर्नाणकपरीचकः सम्यगेव कूटमिति ब्रूते, सम्यग् वा सम्यगिति सोऽप्युत्तमसाहमं दण्डनीयः । यः पुनर्वेद्यः श्रायुर्वेदानभिज्ञएव जीवनार्थं चिकित्साजोऽहमिति तिर्य्यमनुष्यराजपुरुषेषु चिकित्सां करोति, म यथाक्रमं प्रथममध्यमो - तमसाहसं दण्डनीयः । योऽपि वणिग्व्रीहिकार्पासादेः पण्यस्याष्टमांशं कूटमानेन कूटतुलया वाऽपहरति असौ पणानां द्विशतं दण्डनौयः । अपह्रियमाणद्रव्यस्य पुनर्दृद्धौ हानौ च दण्डस्यापि वृद्धिहानौ कल्पनीये । भेषजमौषधद्रव्यं, स्नेहोष्टतादि, गन्धद्रव्यमुौरादि । एतेष्वसारद्रव्यं विक्रयार्थं मिश्रयतः षोड़शपणं दण्डः । न विद्यते बहुमूल्या जातिर्यस्मिन् मृचम्मदिके, तदजाति । तस्मिन् जातिकरणे विक्रयार्थं गन्धवर्णरसान्तरसञ्चारणेन बहुमूल्यजातीयमादृश्यसम्पादने, विक्रेयस्यापादितसादृश्यस्य चर्मादेः पष्यस्याष्टगुणोदण्डः । समुद्रकस्य करण्डकादेः परिवर्त्तनं व्यत्यासः । योऽन्यदेव मुतानां पूर्ण करण्डकं दर्शयित्वा अन्यदेव स्फटिकानां पूर्ण हस्तलाघवात् समर्पयति यश्च सारभाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयमाधिं वा नयति, तस्यैवं दण्डकल्पना | कृत्रिमकस्तूरिकादेर्मूल्यभूते पणे न्यूने, न्यूनपणमुल्ये इति यावत् । तस्मिन् कृत्रिमे विक्रीते पञ्चाशत्पणोदण्डः । पणमूल्ये तु शतं द्विपणमूल्ये तु द्विशतोदण्ड: । एवं मूल्यवृद्धौ दण्डवृद्धिरुन्नेया । राजनिरूपितार्घस्य ह्रासं वृद्धिं वाऽपि जानन्तो वणिजः कारुशिल्पिनां - कारूणां रजकादौनां शिल्पिनां चित्रकारादीनां पीड़ाकरं श्रर्घान्तरं लाभलोभात् कुर्वन्तः पण महत्रं दण्डनीयाः । ये पुनर्देशान्तरादागतं पण्यं दीनमन्येन
For Private And Personal Use Only