SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परामाधवः। एषोदिता घातकानां तस्कराणाञ्च भावना"-इति । याज्ञवल्क्योऽपि, "अविज्ञातहतस्यापि कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ स्त्रौद्रव्यदृत्तिकामो वा केन वाऽयं गतः मह । मृत्युदेशसमासनं पृच्छेदाऽपि जनं शनैः"--इति । उकज्ञानोपायासम्भवे तु कात्यायनः, "विना चिकैस्तु यत्कार्य माहसः सम्प्रवर्त्तते । शपथैः स विशोध्यः स्यात्सर्वबाधेष्ययं विधिः"-दूति । माहसिकबधे विशेषमाह व्यासः, "ज्ञात्वा तु घातकं सम्यक् समहायं सबान्धवम् । हन्याच्चित्रबधोपायैरुद्धजनकरैर्नृपः” इति । रहस्पतिरपि, "प्रकाशवधका ये तु तथाचोपांशु घातकाः । जात्वा सम्यग्धनं हत्वा हन्तव्या विविधैर्वधैः" इति । एतत्ब्रह्मनक्षत्रियादिविषयम् । तदाह. बौधायनः । "क्षत्रियादौनां ब्राह्मणबधे बधः सर्वस्वहरणञ्च । तेषामेव तुल्यापकृष्टबधे यथा बलमनुरूपं दण्डं प्रकल्पयेत्” इति । बहूनामेकघातार्थ प्रवृत्तानां दोषानुरूपदण्डाभिधानार्थमाह कात्यायनः, “एकञ्चेदहवो हन्युः संरब्धाः पुरुषं नराः । मर्मघाती तु यस्तेषां म घातक इति स्मृतः".-इति । यो मर्मघातकः मएव बधानुरूपदण्डभारमवतीत्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy