________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकागरम ।
“यांस्तत्र चोरान् ग्टलीयात्तान्विताद्याभिवध्य च । अवकृष्य च सर्वत्र हन्याच्चित्रवधेन तु"-इति ।
इति स्तेयप्रकरणम् ।
अथ साहसम्। तत्खरूपं नारदेनोक्रम्,
"माहमा क्रियते कर्म यत्किञ्चिद्दलदर्पितैः ।
तत्माहसमिति प्रोकं महोबलमिहोच्यते"-इति ॥ ननु साहसं चौर्यवाग्दण्डपास्थ्यस्त्रीसंग्रहणेभ्यो न व्यतिरिच्यते. तेषां तदवान्तरविशेषत्वात् । तथाच वृहस्पतिः,
"मनुष्यमारणञ्चौर्यं परदाराभिमर्शनम् । पारुय्यमुभयञ्चैव माहसं तु चतुर्विधम्" इति । तत्कथं पृथगस्य व्यवहारपदता । सत्यम् । तथापि बलदर्यावष्टम्भोपाधितस्तेभ्यो भिद्यते इति दण्डातिरेकार्थं पृथगभिधानम् । मनुष्यमारणरूपस्य साहसस्य तेभ्योऽतिरेकात्तदर्थं वा पृथगभिधानम्। तस्य च त्रैविध्यमाह नारदः,
"तत्युनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । उत्तमञ्चेति शास्त्रेषु तस्थोकं लक्षणं पृथक् ॥ फलमूलोदकादौनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपावमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥ वासोपश्चनपानानां ग्रहोपकरणम्य च ।
For Private And Personal Use Only