________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
पराशरमाधदः ।
स्वग्रामाच्चोरपदं निर्गतं न दृश्यते । दर्शने तु तत्पदं यत्र प्रविशति, तद्विषयाधिपतिरेव चोरं धनं चार्पयेत् । तथाच नारदः,
"गोचरे यस्य मुथ्थेत तेन चोरः प्रयत्नतः ।। ग्राह्यो दाप्योऽथवा द्रव्यं पदं यदि न निर्गतम् ॥ निर्गतं पुनरेतस्यान्न चेदन्यत्र याति तत् ।
मामन्तान्मार्गपालांच दिक्पालांश्चैव दापयेत्”-दूति । विवौते त्वपहारे विवीतखामिनएव दोषः। यदा त्वध्वन्येव तत् हतं भवति अविवौतके वा विवीतादन्यत्र क्षेत्रे, तदा चोरोधर्तर्मार्गपालस्य दिक्पालस्य चापराधः। यदा पुनर्यामादहिःसीमान्तपर्यन्ते क्षेत्रे दोषोजायते, तदा तद्वामवासिनएव दद्युर्यदि सौम्रो वहिश्चोरपदं न निर्गतम् । निर्गते पुनर्यत्र तत्प्रविशति, मएव ग्रामश्चोरार्पणादिकं कुर्यात् । यदा बनेकग्राममध्ये क्रोशमात्राबहिःप्रदेशे दोषादिकं जायते चोरपदच जनसंमर्दानमं, तदा पञ्चग्रामौ दशग्रामौ वा दद्यात् । विकल्पस्तु प्रत्यासत्त्याद्यपेक्षया व्यवस्थितः। यदा दापयितुमशनोराजा, तदा स्वयं दद्यात् । तथाच गौतमः । “चोरहतमवजित्य यथास्थानं गमयेत् खकोभादा दद्यात्" इति । स्तेयसन्देहे निर्णयोपायमाह वृद्धमनुः,
“यदि तस्मिन् दाप्यमाने भवेन्मोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर्वाऽपि माधयेत्'-दुति । चोरबधप्रकारविशेषमाह नारदः,
* दापयेत्, इति ग्रन्थान्तरे पाठः ।
For Private And Personal Use Only