________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
३०५
श्चित्तं चिकिर्षताम् । तथाच मनुः,
"प्रायश्चित्तमकुर्वाणाः सर्वे वर्णा यथोदितम् ।
अङ्या राज्ञा ललाटे तु दाप्याश्चोत्तमसाहसम्" इति । भनावकागादिदानेन चोरोपकारिणं प्रत्याह याज्ञवल्क्यः,
"भकावकाशाग्न्युदकशस्त्रोपकरणव्ययान्।
चोरस्य ददतो हाँ जानतोदममुत्तमम्” इति । कात्यायनोऽपि,
“चोराणाम्भनदा ये स्युम्तथाप्युदकदायकाः । भेत्ता तत्रैव भाण्डानां प्रतिग्रहणएवच ।
समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान्”-दूति । चोरोपेक्षिणं प्रत्याह नारदः,
"शताश्च ये उपेक्षन्ते तेऽपि तद्दोषभागिनः । उत्को शतां जनानान्तु हियमाणे धने तथा ॥
श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोषभागिनः" इति । चोरादर्शने द्रव्यप्राप्युपायमाह याज्ञवल्क्यः,--
"घातितेऽपहते दोषो ग्रामभर्तुरनिर्गते। विवीतभर्तुम्नु पथि चोरोङ्घर्तुरवीनके ॥ खमोम्नि दद्याद्रामस्तु पदं वा यत्र गच्छति ।
पञ्चग्रामो वहिःक्रोशात् दशग्राम्यथवा पुनः" इति । अयमर्थः । यदा ग्राममध्येऽपि बधो द्रव्यहरणं वा जायते, तदा ग्रामपतेरेव चोरोपेक्षादोषस्तापरिहारार्थ ग्रामपतिरेव चोरं ग्टहीत्वा राजे ममर्पयेत् । तदाको धनिने हृतं दद्यात् । यदि
For Private And Personal Use Only