SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । दध्नः चौरस्य तक्रस्य पानीयस्य रणस्य च ॥ वेणुवैणवभाण्डानां लवणानां तथैवच । मृन्मयानाञ्च हरणे मृदोभस्मनएवच ॥ अजानां पक्षिणाञ्चैव तैलस्य च तस्य च । मांसस्य मधुनश्चैव यच्चान्यत् पशुसम्भवम् ॥ अन्येषां चैवमादौनां मद्यानामोदनस्य च । पक्वान्नानाञ्च सर्वेषां तन्मल्याट्विगुणो दमः” इति । तदल्पप्रयोजनविषयम् । स्वल्पप्रयोजनद्रव्यापहारादीनां न दण्डइत्याह मनुः, "द्विजोऽध्वगः चौणवृत्तिः द्वाविजू द्वे च मूलके । श्राददानः परक्षेत्रान्न देयं दातुमर्हहि ॥ चणकब्रोहिगोधूमयवानां मुगमाषयोः । अनिषिद्धैर्ग्रहीतव्या मुष्टिरेका पथि स्थितैः ॥ तथैव सप्तमे भने भक्कानि षडनग्नता। अश्वस्तनविधानेन हर्तव्यं होनकर्मणा" इति । महापराधेऽपि ब्राह्मणस्य न बधदण्ड इत्याह याज्ञवल्क्यः, "सचिहं ब्राह्मणं कृत्वा स्वराष्ट्रादिप्रवासयेत् । महापराधिनमपि ब्राह्मणं नैव घातयेत्'-दूति । अपि तु ललाटे चिहं कृत्वा स्वदेशानिर्वासयेत् । तथाच मनुः, "गुरुतल्ये भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्यं ब्रह्मास्याशिराः पुमान्" इति । एतच्चाङ्कनादि प्रायश्चित्तमकुर्वतां दण्डोत्तरकालं, न तु प्राय For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy